________________
(२९०)
अनेकार्थसंग्रह सटीकः
जीवः स्यात्रिदशाचार्ये द्रुमभेदे शरीरिणि ।। जीवितेऽपि च जीवा तु वचायां धनुषो गुणे ॥५१०॥ शिञ्जिते क्षितिजीवन्त्योवृत्तौ तत्वं परात्मनि ।। वाद्य भेदे स्वरूपे च द्रवो विद्र वनर्मणोः ॥५११।।
शोभाया यथा-यद् दंष्ट्रा चन्द्रखण्डे भूलाञ्छनच्छविहर्वरा । जवः स्याद् वेगवेगिनोः। जवनं जवति वा जवः। वेगे यथाएकः पलायत जवेन कृतार्तनादः। वेगिनि वाच्यलिङ्गः। तत्र यथा-विजिग्ये राजकं राजा जवैर्यवनवाजिभिः। जवौड़पुष्पे । जपति जपा । "जपादीनां पो वः' २।३।१०५। इति वत्वे जपा। यथा-गतवत्यराजत जवा कुसुमस्तव कद्युतौ दिनकरेऽवनतिः । जिह्वा तु वाचि ज्वालारसज्ञयोः । लेढि अनया जिह्वा "लहेर्जिह च” (उ० ५१३) इति वः। वाचि रसज्ञायां च यथापरस्य मर्माविषमुष्णतां निजं द्विजिह्वतादोषमजिह्मगामिभिः। अत्र फणिपक्षे द्विजिह्वे रसज्ञे खलपक्षे द्विजिद्द वाचौ यस्य स द्विजिह्वः। ज्वाला हिरण्यादिका तत्र यथा-भवति हिरण्या कनका रक्ता कृष्णा च(व)सुप्रभा चान्या। अतिरक्ता बहुरूपेति । सप्त सप्तार्चिषो जिह्वाः ।।५०९।। जीवः स्यात्त्रिदशाचार्ये द्रुमभेदे शरीरिणि । जीवितेपि च । जीवति जीवनं वा जीवः। त्रिदशाचार्ये गुरौ यथा-द्विपञ्चसप्तनवगो जीवः सर्वशुभावहः। द्रुमभेदो वृक्षविशेषः। शरीरिणि देहिनि यथा-जीवति स जीवले के यस्य गृहाद्यान्ति नाथिनो विमुखाः। जीविते त्रिलिङ्गः। तत्र यथावक्रे केवलमर्गलेव निहिता जीवस्य निर्गच्छतः। जीवा तु वचायां धनुषो गुणे । शिञ्जिते क्षितिजीवन्त्योवृत्तौ । जीवत्यनया जीवा । भिदादित्वादड् । वचा उग्रगन्धा । धनुषो गुणे यथा-जीवाकृष्टिं स चक्रे मृधभुवि धनुष: शत्रुरासीद्गतासुः ।।५१०।। शिञ्जितं नूपुरशब्दः। क्षितिः पृथिवी । जीवन्ती मधुस्रवा । वृत्तिर्जीविका ।