SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ द्वितीयः काण्डः (२८९) poornarrrrrrrrrrrrrrrrrrrrrrow wwwwwwwwwwww किण्वं पापे सुराबीजे क्लीबोऽपौरुषषण्ढयोः । खर्वहस्वौ न्यग्वामनौ ग्रोवे शिरोधितत्सिरे ॥५०८।। छविस्तु रुचि शोभायां जवः स्याद् वेगवेगिनोः ।। जवौडपुष्पे जिह्वा तु वाचि ज्वालारसज्ञयोः ॥५०९।। यथा-रुद्रो नग्नः कविः काण: शनिः पङ्गः शशी क्षयी । कवी तु खलीनके "इतोऽक्त्यर्थात् २।४।३२। इति ङीः। यथा-कवी नवीनैस्तुरगैः सुदुःसहा ।।५०७।। किण्वं पापे सुराबीजे । किणः सौत्रः। किण्यते किण्वम् । “निघृषि" (उ० ५११) इति कित् वः । सुराया बीजम् माषदलन्यादि । द्वयोर्यथा-क्रिणन्ति किण्वं द्रविणैर्नराधमाः। क्लीबाऽपौरुषषण्ढयोः। क्लीवते क्लीबः । अपौरुषे वाच्यलिङ्गः। षण्ढे पुंक्लीबः। अपौरुषो यः पौरुषवर्जितः। तत्र यथा-क्लीबे धैर्यं मद्यपे तत्वचिन्ता । षण्ढे नपुंसके यथागते मृते प्रवजिते क्लीबे च पतिते पतौ। दैन्ययुक्तेऽपि मंखः । विपद्यपि न यः क्लैव्यमाश्रयेत् सततं नरः। खर्वहस्वौ न्यग्वामनौ । खर्वति खर्वः। हसति हस्वः। “लटि खटि" (उ० ५०५) इति वः। वाच्यलिङ्गौ । अनेकार्थ प्रस्तावाद् द्वावपि द्वयौँ । द्वयोर्यथाअखर्वपर्वगर्तासु विच्छिन्नो यस्य वारिभिः। न दीर्घोऽष्टा न हस्वोऽष्टा नौष्ठस्थूला इहि स्त्रियः। ग्रीवे शिरोधितत्सिरे। गिरति ग्रीवा । 'प्रवाह" (उ० ५१४) इति साधुः। शिरोधि: कन्धरा तस्याः सिरा धमनी तत्सिरा। शिरोधौ यथा-परिशिथिलितकर्णग्रीवमालिङ्गिताक्षः(मामीलिताक्षः)। तत्सिरायां यथा-खड्गाघातत्रुटद्ग्रीवैर्वीरकुञ्जरैः ।।५०८॥ छविस्तु रुचि शोभायाम् । छयति छविः। "छवि छिवि" (उ० ७०६) इति साधुः। स्त्रियाम् । । रुचि दीप्तौ यथा-सरसबिसिनीकन्दच्छेदच्छविमृगलाञ्छनः ।
SR No.002279
Book TitleAnekarth Sangraha Satik Part 01
Original Sutra AuthorHemchandracharya
AuthorMahendrasuri, Jinendravijay
PublisherHarshpushpamrut Jain Granthmala
Publication Year1972
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy