________________
Vvvvvvvv
NA
द्वितीयः काण्डः (२८७) स्थालं भाजनभेदे स्यात्स्थाली तु पाटलोखयोः ।। स्थूलः पीने जडे हालः सातवाहनपार्थिवे ॥५०४॥ हाला सुरायां हेला तु स्यादवज्ञाविलासयोः ।। हेलिरालिङ्गने सूर्येऽप्यविर्मूषिककम्बले ॥५०५॥
पुंक्लीबः। तत्र वृक्षमात्रे च यथा-सालप्रांशुर्महाभुजः। प्राकारे यथायत्सालमुत्तुङ्गतया विजेतुं दूरादुदस्थीयत सागरस्य । सर्जतरौ तालव्यादिरपि ॥५०३।। स्थालं भाजनभेदे स्यात् । स्थल स्थाने । स्थलति स्थालम् । “वा ज्वलादि" ५। १।६२॥ इति णः। तिष्ठतेर्वा "स्थो वा” इति अलः। स्त्रीक्लीबः भाजनभेदे भोजनपात्रविशेषे यथा-आहाराय प्रेतराजस्य रोप्यस्थालानीव स्थापितानि स्म भान्ति । स्थाली तु पाटलोखयोः। पाटला पुष्पतरुः। उखा पाकभाण्डम् । तत्र यथा-स्थाली विपक्वैस्ते वह्नौ निवारैर्जुवुर्धतः। स्थूलः पीने जडे । स्थूलणि परिवंहणे स्थूलयते स्थूलः। वाच्यलिङ्गः। द्वयोर्यथा-बहुस्पृशापि स्थलेन स्थीयते बहिरश्मवत् । हाल: सातवाहनपार्थिवे । हलति हालः। ज्वलादित्वाण्णः। यथा-दिवंगते हालवसुन्धरापतौ । हाला सुरायां । यथा-हित्वा हालामभिमतरसां रेवती लोचनाकाम । हेला तु स्यादवज्ञाविलासयोः। हेडड् अनादरे । हेडनं हेला। हिलत् हाकरणे इत्यस्य हेलयतीति वा । अवज्ञायां यथा-हेलोल्लङ्घितवाहिनीपतिरिति श्लाघाचलत्कन्धरः। विलासे यथा-अकृत्वा हेलया पादमुच्च मूर्द्धसु विद्विषाम् । हेलिरालिङ्गने सूर्येऽपि । हेलयति हेलि: "स्वरेभ्य इ:' (उ० ६०६) पुंसि । द्वयोर्यथाहेलि परमहेलानां यः करोति नराधमः। हेलिनेव तमःस्तोमः स पापेन विहन्यते । अथ वान्ताः। अविर्मूषिककम्बले मेषे रवौ