________________
AAAAAAAAAAM
-
ट
(२८६) अनेकार्थसंग्रहः सटीकः
शुक्लं रूप्ये शुक्लो योगे श्वेते शूलं रुगस्त्रयोः ॥ योगे शूला तु पण्यस्त्री वधहेतुश्च कोलकः ॥५०२।। शैला भूभति शैलं तु शैलेये तायशैलके ।
सालः सर्जतरौ वृक्षमात्रप्राकारयोरपि ।।५०३।। ल:। साधुवृत्ते यथा-तथा हि ते शैलमुदारदर्शने तपस्विनामप्युपदेश्यतां गतम् । स्वभावे यथा-वामशीलाहि जन्तवः ।।५०१।। शुक्लं रूप्ये । शुक् गतौ शोकति शुक्लम् । " शुकशीमूभ्यः कित्" (उ० ४६३) इति लः। रूष्यं रजतम् । तत्र यथाकाञ्चनाम्भोज किजल्कैः शुक्लभित्तिविराजते । शुक्लो योगे श्वेते । श्वेते गुणे पुंसि । तद्वति वाच्यलिङ्गः। योगे यथासिद्धः साध्यः शुभः शुक्लः। श्वेते यया-शुक्लां शुकोपरचितानि निरन्तराभिः। शूलं रुगत्रयोः। योगे। शूलरुजायाम अचि शूलं पुंक्लीबः। रुचि रोगे अस्त्रे च यथा-शूलीजातः कदशनवशाभक्षयोगात् कपाली वस्त्राभावाद्विगतवसनः स्नानदौस्थ्याज्जटावान् । योगे यथा-धृतिः शूल तथैव च । शूला तु पण्यत्री वधहेतुश्च कीलकः। पण्यस्त्रियां यथा-वित्तं हि मूलतो याति शूलायां लालचेतसः। वहेतौ कीलके यथा-शूलाप्रोतो मलिम्लुचः । मखस्तु अस्त्रीशूलं रुगायुधम् । तच्छिखावधकं काष्ठमिति किल. केऽपि पुंक्लीबमाह । यथा-उपेक्ष्यते साधुजनेन वैदिकीश्मशानशूलस्य न यूपसत्क्रिया ॥५०२॥ शैलो भूभृति । शिलानामयं शैलः। यथा-यं सर्वशैला: परिकल्प्य वत्सम् । शैलं तु शैलेये तार्थ्यशलके । शैलेयं शिलाजतु । तार्यशैलकं दारुहरिद्राल्वाथोत्थं तुच्छ रसाञ्जनम् । गण्डेऽपि तत्र तु पुंक्लीबः। साल: सर्जतरौ वृक्षमात्रप्राकारयोरपि । सल गतौ - सल्यते साल: सर्जतरौ