________________
द्वितीयः काण्ड:
स्कन्धशाखायां शालिस्तु गन्धोतौ कलमादिषु ॥ शालुः कषायद्रव्ये स्याच्चोरकाख्यौषधेऽपि च ।। ५०० ।। शिलमुञ्छ : शिलाद्वाराऽधोदारु कुनटी दृषत् ॥ शिली गण्डूपदी शीलं साधुवृत्तस्वभावयोः ||५०१॥
(२८५)
शालुः ।
पुंसि ।
मत्स्यविशेषः । शालोकस्तत्प्रदेशयोः । स्कन्धशाखायाम् । ओको गृहम् । तत्र यथा - निर्दिष्टां कुलपतिना स पर्णशालामध्यास्य प्रयतपरिग्रहद्वितीयः । तस्य ओकसः प्रदेश एकदेशः । तत्र यथागृहैविशालेरपि भूरिशालैः । । ४९९ ।। स्कन्धशाखायां यथा - तमालशालासु विधाय दोलाम् | शालस्तु गन्धोतौ (प्र. गन्धौती ) कलमादिषु । शलति शालिः । " कमि वमि" ( उ० ६१८) इति णिदिः । पुंसि । गन्धोतुर्गन्धमार्जारः पुष्पलाख्यः । कलमादिषु यथा - नमिताः फलभारेण नमिताः शालिमञ्जरीः । शालुः कषायद्रव्ये स्याच्चोरकाख्यौषधेऽपि च । शृणाति रोगान् “ऋ तू शू" ( उ० ७२७ ) इति णिदुर्लत्वं चरस्य । हिंस्रेऽपि ।। ५०० || शिलमुञ्छः । शिलत् उञ्छे । “नाम्युपान्त्य " ५।१।५४ । इति के शिलम् । उञ्छा धान्यकणोच्चयः । तत्र यथाशिलैर्नु किं नास्ति सखे फलैर्वा वृतिर्यदुत्ताम्यसि सेवया त्वम् । शिला द्वाराsधोदारु कुनटी दृषत् । द्वाराऽधोदारुणि यथा- पूजां विधायाथ शिलाप्रदेशे । कुनटी मनः शिला । दृषदि यथा - शिलाशयान्तामनिकेतवासिनीम् । बर्षोपलेऽपि मंख: । व्यासृजत्स शिलावृष्टिम् । शिली गण्डूपदी । गण्डूपदी जलजन्तुविशेषः । यथा - शिलीकलकलैः कलां कलयते वलात्पल्वलम् । शीलं साधुवृत्तस्वभावयोः । शील समाधौ शीलण उपधारणे वा । शील्यते शीलम, शेते वा " शुक् शी" ( उ० ४६३ ) इति कित्