________________
(२८४) अनेकार्थसंग्रहः सटोकः wwwwwwwwwwwwwwwwww
व्यालो दुष्टगजे सर्प शठे श्वापदसिंहयोः ॥ वेला बुधस्त्रियां काले, सीमनीश्वरभोजने ॥४९८।। अक्लिष्टमरणेऽम्भोधेस्तिीरनीरविकारयोः ।
शालो हाले मत्स्यभेदे, शालौकस्तत्प्रदेशयोः ॥४९९॥ कुसुमान्तरं कुसुमविशेषः ॥४९७।। व्याला दुष्टगजे सर्प शठे श्वापदसिंहयोः । विविधम् आलम् अनर्थोऽस्माद् व्याल:। विशेषेण आसमन्तात् अडति लाति वा । पञ्चस्वर्थेषु दुष्टगजे यथाव्यालद्विपा यं त्रिभिरुन्मदिष्णवः। कथञ्चिदारादपथेन निन्यिरे । सर्प यथा-जयन्ति धवलव्यालाः शम्भोर्जूटावलम्बिनः। शठे वाच्यलिङ्गः। तत्र यथा-व्यालेविप्लावितं जगत् । श्वापदचित्रकादिः। सिंहः शार्दूलः। तयोर्यथा-यद्व्यालव्रणितसुहृत्प्रमोदग्धं सौजन्याद्विहितवतीगतव्यथं माम् । वेला बुधस्त्रियां काले सीमनीश्वरभोजने। अक्लिष्टमरणेऽम्भोधेस्तीरनीरविकारयोः । कतिचिद्दिनानि पुरुषः कतिचित्स्त्रीति वा इला। वेला बुधस्त्री यस्याः पुत्रः पुरुरवाः। अन्यत्र वेलति वेला। काले यथासन्ध्यावन्दनवेलायां ग्लानोऽहमिति जल्पति । सोमनि मर्यादायां यथा-यादवाम्भोनिधीन् । रुन्द्धे वेलेव भवतः क्षमा। ईश्वरभोजने यथा-वालावित्ता इव क्ष्मापा वेलायामस्य भुञ्जते ।।४९८।। अक्लिष्टमरणं सुखमृत्युः। अम्भोधेस्तीरे यथा-वेलाशैलाङ्कभाजो भुजगयुवतयस्त्वद्गुणानुद्गृणन्ति । अम्भोधेर्नीरविकारोऽम्भसां बृद्धिस्तत्र यथा - अयो वेलाहेलातुलितकुलशैले जलनिधौ । शालो हाले मत्स्यभेदे । शालते शालः श्यति वा "शामाश्या" (उ० ४६२) इति लः। हालः सातवाहननृपः तत्र यथा-जज्ञे शालमहीपाल: प्रतिष्ठानपुरे पुरा। मत्स्यभेदो