________________
(२८२)
अनेकार्थसंग्रहः सटीक:
मालुः स्त्रियां पत्रवल्ल्यां, मूलं पाश्र्वाद्ययोरुडौ ॥ निकुञ्जशिफयोर्मेला* त्वञ्जने मेलकेऽपि च ॥४९५।। मौलिः किरीटे धम्मिल्ले चूडाकङ्केल्लिमूर्द्धसु ॥
लीला केलिविलासश्च, शृङ्गारभावजा क्रिया ॥४९६॥ मालम् । मालो जने स्याद् । जनो जनविशेषः। माला तु पङ्क्तौ पुष्पादिदामनि । पङ्क्तौ यथा-वाले मालेयमुच्चैर्न भवति गमने व्यापिनी नीरदानाम् । पुष्पादिदामनि यथा-भूरेणुदिग्वान् नवपारिजातमालारजोवासितबाहुमध्याः ॥४९४।। मालुः स्त्रियां पत्रवल्यां । म्रियतेऽनया मालुः। ऋ द श इति णिदिः लत्वं च रस्य । स्त्रीलिङ्गः। स्त्री स्त्रीविशेषः। पत्रवल्ली मालुधानी । मूलं पार्वाद्ययोरुडौ । निकुञ्जशिफयोः। मूलति मूलम् मूयते वा “शुकशीमूभ्यः कित्" (उ० ४६३) इति लः । पञ्चस्वर्थेषु पुंक्लीबः। पार्श्वमन्तिकं तत्र यथा-तं कर्णमूलमागत्य रामे श्रीय॑स्यतामिति । आद्ये यथा-त्रैलोक्यभुवनारम्भमूलस्तम्भाय शम्भवे । उडौ नक्षत्रविशेषे यथा-मूलार्कः श्रूयते शास्त्रे सर्वकल्याणकारणम् । निकुञ्ज तरुगहने यथा-गोलाङ्गलैर्मूलमाकीर्णमेतत् । शिफा जटा तत्र यथा-तरुमूलान्यनुनिहितं जलमाविर्भवति पल्लवाग्रेषु । मेला त्वंजने मेलकेऽपि च । मेल्यतेऽनया मिलनं वा मेला । “भीषि भूषि" ५।३।१०९। इति बहुवचनादड् । अञ्जनं मषी तत्र यथा-यदि पत्रायते व्योममेलानंदायतेऽर्णवः। ब्रह्मायते लिपिकरस्तथाप्यन्तः कुतो गिराम् । अत्र मेला मषी तस्यानन्दाभाजनम् । मेलकः सङ्गमस्तत्र यथा-मैलां महेला कुरुते न हेलया ॥४९५।। मौलिः किरीटे धम्मिल्ले _*शिफेयो; स्वीये शिलायां च वशीकृतौ। प्रतिष्ठायामथो मेला०