________________
द्वितीयः काण्ड:
किट्ट कदर्ये विष्टायां, मालं तु कपटे वने ॥ मालो जने स्यान्माला तु पङ्क्तौ पुष्पादिदामनि ॥। ४९४ ॥
(२८१)
।
बुद्धिविवर्जिते । बिभेत्यस्मात् बिभेति वा भेल: । " भीवृधि" ( उ० ३८७ ) इति रे ऋफिडादित्वात् लत्वे भेल: । भीरौ बुद्धिविवर्जिते च वाच्यलिङ्गः। प्लवे उडुपे यथा - नीलस्य शैलेऽपि बभूव भेलः। मुनिभेदश्चिकित्साग्रन्थकारः । भीरौ बुद्धिविवर्जिते च यथा - भवन्ति भेलाः खलु वार्द्धके नराः । मल्लः कपाले बलिनि मत्स्ये पात्रे । मल्लते मल्लः । बलिनि वाच्यलिङ्गः । कपालं शिरोऽस्थि । बलिनि यथा दृष्टं चाणूरमल्लेन | मत्स्यो मत्स्यविशेषः । पात्रे भाजने यथा - मल्लेषु तलकल्लोलैर्दीपालोकः प्रगल्भते । मलस्त्वधे । किड्डे कदर्ये विष्टायां । मलते धारयति मलः । मृज्यते वा "मृजिखन्याहनिभ्यो डित्" ( उ० ४७२ ) इत्यलः । कदर्ये वाच्यलिङ्गः । अन्यत्र पुंक्लीबः । अघं पापं तत्र यथा - निर्मलं मम मनोऽद्य गाहते लाघवं ननु तव विलोकनात् ।। ४९३ ।। किट्टं वसादि । यत्स्मृतिः वसाशुक्रमसृक्मज्जामूत्रंविट्कर्णविट्नखाः । श्लेष्माश्रुदूषिका स्वेदो द्वादशैते नृणां मला : (मदाः) । किट्टं कलङ्क इत्यन्ये । कदर्ये कृपणे यथा - मलैर्न शक्यते दातुं रलेभ्योऽपि खलोऽपि हि । विष्टायां यथा - अयज्ञियतृणच्छन्ना भूमिर्मलविसर्जने । अशुद्धौ कालिम्नि च मखः । अशुद्ध मनोवाक्कायविषयायां यथा - त्रिमलक्षालिनो ग्रन्थाः सन्ति तत्पारगा अपि । कालिम्नि यथा -क्षपातमस्काण्डमलीमसं नभः । मालं तु कपटे वने । मल्यते मालम् मीयते वा । " शामाश्या " ( उ० ४६२ ) इति लः । कपटं छद्म । वनं वनविशेषः । क्षेत्रविशेषेऽपि यथा - सद्यः सीरोत्कर्षणसुरभिक्षेत्रमारुह्य