________________
द्वितीयः काण्ड:
(२७५)
नालं काण्डे मृणाले च, नाली शाककलम्बके । नीलो वर्णे मणौ शैले, निधिवानरभेदयोः ।।४८३।।
विशेषे यथा-स्फारं नेत्रानलेन प्रसभनियमितोश्चापमीनध्वजेन । नडोऽन्तः शुषिरस्तृणविशेषस्तत्र यथा-नीरन्ध्राः पुनरालिखन्तु जठरच्छेदानलगन्थयः। पितृदेवः पितृरूपदेवता । नलं तु स्यात्पद्मे। यथा-नलिनीक्षतसेतुबन्धनो जलसंघात इवासिविद्रुतः। अत्र हि नलानि पद्मानि विद्यन्ते यस्यां सा नलिनी। नली मनःशिला गौरादित्वाद् डीः । मनःशिला धातुभेदः ॥४८२।। नालं काण्डे मृणाले च । नलति नालम् । ज्वलादित्वाद् णः। मृणाले त्रिलिङ्गः। काण्डं दूर्वादीनां गण्डिका तत्र यथा-दूर्वा नलेन बालानाम् । मृणाले यथा-यद्गात्राणि दरिद्रति प्रतिदिनं दूनाब्जिनी नालवत् । प्राण्यङ्गे जलनिर्गमयोरपि। तयोस्तु पुंसि । प्राण्यङ्गे गले यथा-अलिकुलनीलं नालं यो धत्ते सोऽवताद् गणेशो वः। जल निर्गमे यथा-नालेन कूप इव पूरित एष सद्यः। नाली शाककलम्बके । · शाककलम्बको लशुनम् । नीलो वर्णे मणौ शैले निधिवानरभेदयोः। नीलवर्णे नीलति नीलः। वर्णे पुंक्लीबः। तद्वति वाच्यलिङ्गः। वर्णे यथा-द्रव्याश्रयेष्वपि गुणेषु रराज नीलो वर्णः पृथग्गत इवालिगणो गजस्य । मणौ मणिविशेषे यथा-नीलकुट्टिमतले जलभ्रमादुत्थितान्तवसना वजन्त्यमी। शैले यथा-विदेहक्षेत्रमुद्दिष्टं मध्ये निषधनीलयोः। निधौ निधिभेदे यथा-मुकुन्दकुन्दनीलाश्च चर्चास्य निधयो नव । वानरभेदे यथा-पाषाणादपि यत्तरन्ति तरसा तोये तदत्यद्भुतम् । माहात्म्यं विधिना विनिर्मितमिदं नीलस्य