________________
(२७६)
अनेकार्थसंग्रहः सटोकः
नील्योषध्यां लाञ्छने च पलमुन्मानमांसयोः ॥ पल्लिस्तु ग्रामके कुडयां पालियुकाश्रिपङ्क्तिषु ॥४८४।। जातश्मश्रुस्त्रियां प्रान्ते सेतौ कल्पितभाजने ॥
प्रशंसाकर्णलतयोरुत्सङ्गे प्रस्थचिन्हयोः ॥४८५॥ जानीमहे ॥४८३॥ नील्योषध्यां लाञ्छने च । ओषध्यां नीलात्प्राण्योषध्योः। २।४।२७। इति लाञ्छने "क्ताच नाम्नि वा" २।४।२८। इति ङीः। औषध्यां यथा-शस्त्रीश्यामैरंशुभिराशुद्रुतमम्भश्छायामच्छामृच्छति नीली सलिलस्य । लाञ्छनं लक्ष्मविशेषः। पलमुन्मानमांसयोः। पलति पलम् । पुंक्लीबः। उन्माने यथाखण्डस्य षोडशपलानि शशिप्रभस्य । मांसे यथा-पतिः पलभुजामाज्ञापयत्येष वाम् । पल्लिस्तु ग्रामके कुड्याम् । पल्लगतौ पदि पठि (उ० ६०७) इति हः स्त्रियां ह्रस्वः। ग्रामो ग्रामकस्तत्र यथा-तत्पल्लीपतिपुत्रि कुञ्जर कुलम् । कुड्या (टयां) यथा-पल्लीं पर्णमयीं प्रविश्य कृतिभिर्नीतं वयः कैश्चन । गृहगोधिकायामपि यथा-पल्लीरुतं ब्रह्मणि राज्यहेतुः। पालिऎकाश्रिपङ्क्तिषु । जातश्मश्रुस्त्रियां प्रान्ते सेतौ कल्पितभोजने । प्रशंसाकर्णलतयोरुत्सङ्गे प्रस्थचिन्हयोः । पलति पालि: कृश कुटि-इति णिदिः। द्वादशस्वर्थेषु स्त्रियाम् । यूका क्षुद्रजन्तुः। अश्रिः कोणो धारा वा। तत्र कोणे यथा-पालीलीनतनोर्जराधवलितं मूर्धानमालोक्य मे । धारायां यथा-पालीषु मत्तयजदन्त विदारितासु। पङ्क्तौ यथा-पालीयं चम्पकानां परिमलविचलत्पद्यदश्रेणिभाजाम् ॥४८४।। जातस्मश्रु स्त्रियाम् । यथापालिर्न पालयति जातु चिरात् स्वकान्तम् । प्रान्ते यथा-पुण्ये ग्रामे वने वा महति सितपटच्छन्नपाली. कपालीम्। सेतु