________________
द्वितीयः काण्डः
(२६७)
मातृभेदोमयोर्नव्यमेघौघपरिवादयोः ।। काला कृष्णत्रिवन्नील्योर्जिङ्ग्यां कोलोऽग्नितेजसि ॥४६८॥ कफणिस्तम्भयोः शङ्को, कीला रताहतावपि ।। कुलं कुल्यगणे गेहे, देहे जनपदेऽन्वये ॥४६९।। यथा-कोपादुदस्थात्किल तत्र काली। क्षीरकीट: कीटविशेषः ।।४६७।। मातृभेदे यथा-तासां च पश्चात् कनकप्रभाणां काली कपालाभरणा चकाशे । उमायां यथा – कालीत्याशङ्कमानः स्फुरदधरपुट: शूलपाणिः किलाभूत् । नव्यमेघौघः कादम्बिनी । परिवादोऽपवादः । काला कृष्णत्रिवृन्नील्योर्जिङ्ग्यां। कृष्णत्रिवृत् कृष्ण त्रिपुटा । नीली गुलिका । जिङ्गी मजिष्टा। कीलोऽग्नितेजसि। कफणिस्तम्भयोः शङ्कौ। कीलयति कील्यते वा कीलः। स्त्रीपुंसः। अग्नितेजसि अग्निज्वालायां यथा-कीलावकीढभुवनत्रितयस्य तस्य को नाम कल्पशिखिनः प्रतिमानमेति ॥४६८॥ कफणौ कूपरे या-कीलोपघातात्कथयन्ति मल्लाः । स्तम्भे यथा-उत्खाय दर्पचलितेन सहैव रज्जवा कीलं प्रयत्नपरमानवदुर्ग्रहेण। शङ्कौ यथा-जन्म तस्य किल कर्णयोर्गतं वज्रकील इव दुःसहोऽभवत् । कोला रताहतावपि । रताहतिः सुरतप्रहणनम् । यद् वात्स्यायनः कीला उरसि कर्तरी शिरसि वि(ब)द्धा कपोलयोः । कुलं कुल्यगणे गेहे देहे जनपदेऽन्वये । कोलति कुलम् । पञ्चस्वर्थेषु । कुल्या: सजातीयास्तेषां गणे यथा-छायाबद्धकदम्बकं मृगकुलं रोमन्थमभ्यस्य तु । गेहे यथा- त्रयमूर्द्धमुखं नेयं यशोदेवकुलं कुलम् । देहे यथा-याः शक्तयः शरीरस्य ताः प्रोक्ताः कुलदेवताः । जनपदे यथा-यस्मिन् लाटकुले कुलीनचरिताः प्रायः पुमांसः सदा । अन्वये यथा-कुले प्रसूति: प्रथमस्य वेधसः