SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ (२६८) अनेकार्थसंग्रह स्टीक : कूलं तटे सैन्यपृष्ठे, तडागस्तूपयोरपि ॥ कोलो भेलक उत्सङ्गेऽङ्कपाल्यां चित्रके किरौ ॥ ४७० ॥ कोलं तु बदरे कोला पिपल्ल्यां चव्यभेषजे ॥ खलं करके भुवि स्थाने क्रूरे कर्णे जपेऽधमे ||४७१ ॥ यथा - कोले चित्रकम् ।।४६९ ।। कूलं तटे सैन्यपृष्ठे तडागस्तूपयोरपि । कुलति कुलम् | चतुर्ष्वर्थेषु । तटे यथा - स्वयमेव पतिष्यन्ति कूलजाता इव द्रुमाः । सैन्यपृष्ठे यथा - कूलस्थयोधसंघाता युद्धवेला विभाति सा । तडागं सरः । स्तूपो मृदादिकूटः । कोलो भेलक उत्सङ्गेऽपाल्यां चित्रके किरौ । कोलति कोल: कायतेर्वा । ग्रह्माद्भ्यः कित् ( उ० ४९४ ) इति ओलः । भेलके प्लवे यथा - एककोलकलिताखिलभाण्डः । उत्सङ्गेऽङ्के कुलिन्दस्य पुलिन्दबाला | अङ्कपाली परीरम्भः । औषधभेदः । किरौ सूकरे यथा - कोलाकृतिः पातु स माधवो वः । ।।४७० ।। कोलं तु बदरे । बदर्याः फलं बदरम् । कोला पिप्पल्यां चव्यभेषजे । पिप्पली कणा । खलं कल्के भुवि स्थाने क्रूरे कर्णे जपेऽधमे । खलति खलम् । खनति वा । मृजि खनि ( उ० ४७२ ) इति डिदल: । कल्के कर्णे जपे च पुंक्लीब: । भुविक्ली । स्थाने त्रिलिङ्गः । क्रूराधमयोर्वाच्यलिङ्गः । कल्कः कृष्टस्नेहं द्रव्यम् । भूर्युद्धाद्यर्थं शष्पाद्यपनयनेन संस्कृताभूमि: । स्थानं धान्यनिष्पवनक्षेत्रम् । क्रूरो निस्त्रिंशः । कर्णेजप: सूचकः । अधम: पामरः । कल्कक्रूरकर्णेजपेषु यथा - व्रजति विरसत्वमितरः सत्यं परिमलितसुन्दराः सन्तः । यान्ति तिला: खलभावं स्नेहः पयसो विकारेऽपि । भुवि यथा - खलप्रविष्टाविव ताम्रचूडौ । स्थानेऽधमे च यथा - स क्षेत्रतो यत्र फलं
SR No.002279
Book TitleAnekarth Sangraha Satik Part 01
Original Sutra AuthorHemchandracharya
AuthorMahendrasuri, Jinendravijay
PublisherHarshpushpamrut Jain Granthmala
Publication Year1972
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy