________________
द्वितीयः काण्डः
(२६५)
कलने मूलरैवृद्धौ षोडशांशे विधोरपि ।
कलिर्बिभीतके शूरे, विवादेऽन्त्ययुगे युधि ॥४६६॥ खामेखलायामिलायाम् । वाचि गवि च यथा-इला सा धन्या स्याद्भगवति शिवे या प्रणिहिता। बुधस्त्रियां यथा-चन्द्राद्बुधः समभवद्भगवान् नरेन्द्रमाद्यं पुरुरवसमलमसावसूत । अत्र इलाया अपत्यम् ऐल: । शिवाद्यण् । कलं त्वजीर्णरेतसोः। अव्यक्तमधुरध्वने । कलयति कलम् । अजीर्णो जरारहितः। अव्यक्तो मधुरो ध्वानो (प्र. ध्वनौ) यस्य(त्र) अव्यक्तमधुरध्वानः (प्र. ध्वनः)। तयोर्वाच्यलिङ्गः। अव्यक्तमधुरध्वनिमात्रे पुंसि । अजीर्णे यथा- स दृढेरङ्गसन्धान(सुदृढेरङ्गरंध्वान)वद्धोऽपि कल: फिल। रेतः शुक्रं तत्र यथा-खलेन निष्कलश्चक्रे बालोऽयं राजयक्ष्मणा । अव्यक्तमधुरध्वाने यथा-स क्षुद्रो मुसलध्वनिः कलमिदं संगीतकं योषिताम् । मनोहरेऽपि मंखः । तत्र तु वाच्यलिङ्गः। यथा - तुषारसंघातशिलाखुराप्रैः समुल्लिखन् दर्पकल: ककुद्मान् । कला स्यात्कालशिल्पयोः । कलने मूलरैवृद्धौ षोडशांशे विधोरपि । कल्यतेऽनया कलनं वा कला। भीषि भूषि ५।३।१०९ इति बहुवचनात्साधुः। काल: कालविशेषः । यदाह-अष्टादश निमेषाः स्युः काष्ठात्रिंशत्तु ताः कलाः । तत्र यथा-लीलागृहे प्रतिकलं किल किञ्चितेषु ।।४६५॥ शिल्पे विज्ञानकौशले विधोः षोडशांशे च यथाकला समग्रेण गृहानमुञ्चता मनस्विनीरुत्कयितुं पटीयसा । विलासिनस्तस्य वितन्वता रतिं न नर्मसाचिव्यमकारि नेन्दुना ।
कलने संख्याने यथा-न शक्यात्र कलाकर्तुमपि कल्पशतैर्यदि । १४ मूलरैवृद्धौ मूलधनवृद्धौ यथा-तत्कलारहितं धनम् । अंशमात्रे