________________
(२६४)
अनेकार्थसंग्रहः सटीकः
आलिः सख्यावलीसेत्वनर्थेषु विशदाशये ॥ आलुर्गलन्तिकायां स्यादालु भेलककन्दयोः ।।४६४॥ इलोर्वी वाग् बुधस्त्री गौः कलं त्वजोर्णरेतसोः ॥
अव्यक्तमधुरध्वाने कला स्यात्कालशिल्पयोः ॥४६५।। कद्वम्लोष्णरताः शरद् दधिभुजो हेमन्तनिद्रालसाः । अम्लवेतसे वृक्षः। अम्ली चाङ्गेर्याम् । गौरादित्वाद् ङोः। चाङ्गेरी औषधिः। आलं स्यादनर्थहरितालयोः। अल्यते आलम् । अनर्थो यथासोप्यालमालप्य चचाल वाल: । हरितालं धातुभेद: ॥४६३।। आलिः सख्यावलीसेत्वनर्थेषु विशदाशये। अलति अल्यते वा आलि: । कृश कुटि इति णिदिः । पञ्चस्वर्थेषु स्त्रियाम् । सख्यां यथा-निवार्यतामालि किमप्ययं बटुः। आवल्यां श्रेण्यां यथा-करकलितक(र)णत्कङ्कणालीकराल: (प्र० करकलितकङ्कणं कणालीकरालः) प्र. कलकलितरणत्कङ्कणाली कराल:)। सेतो जलादिमर्यादायां यथा-तस्मिन्नालिप्रदेशे जलधरपटलैः प्रापि(प्य)ते तामवस्थाम् । अनर्थे यथा-मिथ्यालीविषयस्त्वया प्रियतमे कोपादहं किं कृतः । विशद आशयः स्थानम् । अभिप्रायो वा। वृश्चिकेऽपि मंखः। तत्र पुंसि । यथा- ते वृकविषमालि विषं मूषिक (मूषकः) विषमपहरन्त्यशेषेण । आलुर्गलन्तिकायां स्यात् । इत्ति आलुः । ऋतृश (उ० ७२७) इति णित् उः लत्वं च रस्य । स्त्रियाम् । यद् गौड:-आलुर्गलन्तिकायां स्त्रीक्लीबे मूले च भेलके । यथा-भवति भुवनं भव्यं द्वारे शयालुभिरालुभिः। आलु भेलककन्दयोः । क्लीबे । भेलक उडुपः। कन्दः कन्दविशेषः ॥४६४॥ इलो:वाग् बुधस्त्री गौः । इलति इला । चतुर्वर्थेषु । उर्त्यां यथा-अस्यां राजन् न जलधिपरि