________________
द्वितीयः काण्डः
(२५९)
स्वरः शब्देऽचि षड्जादौ सत्त्रमाच्छादने ऋतौ ।। सदादाने वने दम्भे स्वरुः स्याद्यूपखण्डके ।।४५४।। अध्वरे कुलिशे बाणे सारो मज्जास्थिरांशयोः ॥
बले श्रेष्ठे च सारन्तु द्रविणन्याय्यवारिषु ।।४५५॥ मृत्योरग्रेसराः सराः ॥४५३।। स्वरः शब्देऽचि षड्जादौ । स्वरति स्वरः । स्वयं राजते वा । शब्दे यथा-स्वरेण तस्याममृतश्रुतेव प्रजल्पितायामभिजातवाचि । अजिति अकारादीनां चतुर्दशानां वर्णानां पाणिनीया संज्ञा । तत्र यथा-एक स्वरं चित्रमुदाहरन्ति । षड्जादौ यथा-सप्त स्वरास्त्रयो ग्रामा मर्छनाश्चैकविंशतिः । उदात्तादावपि मंखः । यथा-निहन्त्यरीनेकपदे य उदात्तः स्वरानिव । सत्त्रमाच्छादने क्रतौ। सदादाने वने दम्भे (प्र. वापि)। सीदन्त्यस्मिन् सस्त्रम् । हु यामा (उ० ४५१) इति त्रः । पञ्चस्वर्थेषु । धनेऽपि मंखः । धनाच्छादनयोर्यथाआपद्गतानुद्धर सत्तवृष्ट्या। ऋतौ यज्ञे यथा-हविषे दीर्घसत्रस्य सा चेदानीं प्रचेतसः (प्र. प्रचेतसा)। सदादाने यथा-विप्रैः सूचितनक्षत्रैः सत्रागारेषु भुज्यते । वनेऽरण्ये यथा-सत्रेषु य (प्र.व)स्वासविहीनबुद्धिायेद्विभुं संसृतिभीतचेताः। दम्भे कपटे यथा-सत्त्रायन्ते सत्रिणश्चेत् किमेभिर्ज्ञानानैः सत्क्रियाभिव्रतश्च । स्वरुः स्याद्यूपखण्डके । अध्वरे कुलिशे बाणे । स्वरति स्वरुः । भृ म तत्सरि (उ० ७१६) इति उः । चतुर्वर्थेषु । पुंसि । यूपखण्डकं छुरिकाप्रायं दारुमयं लम्बमानं यत्क्रियते । सर्वेषु यथा-स्वरौ स्वरौचित्यनिधेविडोजा दृष्टि निधत्ते वितताभिमर्षः ॥४५४।। सारो मज्जास्थिरांशयोः बले श्रेष्ठे च । सरति कालान्तरं सारः । सत्तः स्थिर ५।३।१७। इति घनु । सार