________________
(२५८)
अनेकार्थसंग्रहः सटोक:
शुक्रं तु रेतोऽक्षिरुजोः, शुभ दीप्तेऽभ्रके सिते ॥ शूरश्वारभटे सूर्ये, सरौ दध्य पसायको ॥४५३।।
शिग्र गेरुनमेर्वादयः (उ० ८११) इति साधुः । पुंक्लीबः । शोभाञ्जनो वृक्षभेदः । शाकं पत्रमूलफलादिदशविधं व्यञ्जनम् । शीघ्र चक्राङ्गतूर्णयोः । उशीरे । श्यायते शीघ्रम् । खुर क्षुर (उ० ३९६) इति साधुः । चक्राङ्गं रथावयवस्याङ्गम् । तूर्णे वाच्यलिङ्गः । तत्र यथा-विदधतु घृणयः शीघ्रमहो विघातम् । उशीरं वीरणीमूलम् । शुक्रस्तु शुक्ले ज्येष्ठमासेऽग्निकाव्योः । शोचति शुक्रः। ऋज्यजि इति कित् रः । न्यङ्क्वादित्वात् कत्वम् । शुक्ले गुणे पुंसि तद्वति वाच्यलिङ्गः । ज्येष्ठे मासेऽग्नौ च पुंक्लीबः । तयोर्यथा-शुक्रस्य किं चित्रमिदं त्रिलोकी यदक्रमेणाकृततीव्रतापाम् । काव्ये भार्गवे यथा-काम: पुरः शुक्रमिव प्रयाणे ।।४५२॥ शुक्रं तु रेताऽक्षिरुजोः । रेतसि यथा-पुमान् पुंसाऽधिके शुक्रे स्त्री भवेदधिके स्त्रियः। अक्षि रुजि यथा-शुक्रं नाशयति क्षणात् । शुभ्रं दिप्तेऽभ्रके सिते । शोभते शुभ्रम् । ऋज्यजि इति कित्रः। सिते गुणे पुंसि । तद्वति दीप्ते च वाच्यलिङ्गः। अभ्रके क्लीबे । दीप्ते भासुरे यथा-लावण्यशुभ्रमुखकान्तितया तया यः। अभ्रके यथाशुभ्रं सूतेन जारयेत् । सिते शुक्ले यथा-कृतोपवीतं हिमशुभ्रमुच्चकैः । शूरश्वारभटे सूर्ये । शूरयते शूरः। शवति वा चिजिशुसि (उ० ३९२) इति रः दीर्घत्वं च। चारभटे वाच्यलिङ्गः । तत्र यथा-वलानि शूराणि घनाश्च कञ्चकाः। सूर्ये यथा-शूरः क्रूरतमः सपत्नसमर क्रोधादिवालोहितः । सरो दध्यनसायकौ । सरति सरः । द्वयोर्यथा-सन्निपाते हि वीराणां