________________
द्वितीयः काण्ड:
(२५७)
द्यूतस्य चोपकरणे शास्त्रं ग्रन्थनिदेशयोः ॥ शारिः कुञ्जरपर्याणे शकुनौ द्यूतसाधने ॥४५१।। शिग्रुः शोभाञ्जने शाके, शीघ्रं चक्राङ्गतूर्णयोः ।।
उशीरे शुक्रस्तु शुक्ले, ज्येष्ठमासेऽग्निकाव्ययोः ॥४५२।। हतमम्भः । शद्रिजिष्णौ तडित्वति । शीयते शद्रिः। तङ्कि वति (उ० ६९२) इति रिः । जिष्णौ जयनशीले वाच्यलिङ्गः। तडित्वति मेघे पुंसि । शरुः कोपे शरो शरे वजे । शृणाति शरुः । भृ मृ तृत्सरि इति उः पुंसि । शारः श लवातयोः द्यूतस्य चोपकरणे । शीर्यते शारः । श्री वा युवर्णनिवृते ५।३।२०। इति घा । शबले वर्णे पुंसि तद्वति वाच्यलिङ्गः। तत्र यथा - पक्ष्मोत्क्षेपादुपरि विलसत्कृष्णशारप्रभाणाम् । वाते यथा - अश्रान्तशारविशरारुविशीर्णपर्णाः ॥४५०।। द्यूतोपकरणे स्त्री पुंसलिङ्गः यथा-उत्खातप्रतिरोपितैर्नृपतिभिः शाररिव क्रीडितम् । शास्त्रं ग्रन्थनिदेशयोः। शास्तुर्धर्म्य शास्त्रम् । ऋन्नरादेरण् । ६।४।५१॥ इत्यण् । शिष्यतेऽनेन वा । त्रट । (उ० ४४६) इति त्रट् । ग्रन्थे यथा-विशेषविदुषः शास्त्रं यत्तवोद्ग्राह्यते पुरः । निदेशे यथा-अखण्ड स्वगुरोः शास्त्रं द्विवेरेव प्रतन्यते । शारिः कुञ्जरपर्याणे शकुनौ द्यूतसाधने । शृणाति शीर्यते वा शारिः । कृ श कुटि कृ पृ कटि (उ० ५८९) इति णिदिः। स्त्रियाम् । कुञ्जरपर्याणे यथाशारिभिः शुशुभिरे महागजाः । शकुनौ पक्षिभेदे यथा-पृच्छन्तों वा मधुरवचनां शारिका पञ्जरस्थाम् । अत्र शारिरेव शारिका। द्यूतसाधने यथा-शारिव्यग्रकराः प्रहारविधुरा धूर्ता नटन्त्या. कुलाः ॥४५१।। शिग्रुः शोभाञ्जने शाके । शिनोति शिग्रुः ।