________________
(२५६)
अनेकार्थसंग्रहः सटीकः
शरः पुनर्दधिसारे काण्डतेजनयोरपि ॥ शक्रोऽर्जुने तराविन्द्रे, कुटजे शास्त्रमायुधे ||४४९॥ लोहे शत्री छुरिकायां शद्रिर्जिष्णौ तडित्ववि ॥ शरु: कोपे शरे वज्र शारः शबलवातयोः ।।४५० ।।
ध्वान्ते दानवे वासवे गिरौ । वर्तते वृत्रः । ऋज्यजि इति कित रः । मेघे रिपौ वासर्वे गिरौ च यथा - वृत्रेण मित्रायितम् । ध्वान्ते दानवे च यथा - हरिरिव हरिदश्वः साधु वृत्र हिनस्ति । वेरं घुसृणवृन्ताकशरीरेषु । वेति वेरम् । भी वृधि इति बहुवचनाद्र । शरीरे पुंक्लीबः । चुसृणं कुङ्कमम् । वृन्ताकं शाकभेदः शरीरॆ यथा–कुबेरगुप्तां दिशमुष्णरश्मौ । अत्र हि कुत्सितं बेरं शरोरमस्य कुबेरो धनदः । शरं जले । शीर्यते शृणाति वा शरम् । यथा - शरैरिव शरैर्हन्ति पाथोद: पथिकाङ्गनाः || ४४८ ।। शरः पुनर्दधिसारे काण्डतेजनयोरपि । दधिसारे काण्डे च पुंक्लीबः । दधिसारे यथा - दध्नो वास ( प्र० वा शं) गुड : शरः । काण्डे बाणे यथा - त्वद्दन्ताङ्कितवालिकक्षरुधिरक्लिन्नाग्रपुङ्खं शरम् । तेजनो मुञ्जः । तत्र यथा-आराध्यैनं शरवणभुवं देवमुल्लङ्घिताध्वा । शक्रोऽर्जने तराविन्द्रे कुटजे । शक्नोति शक्रः । भी वृधि ( उ० ३८७ ) इति र: । अर्जुनतरुः ककुभः । इन्द्रे यथा - पुरा शक्रमुपस्थाय तवोर्वी प्रति यास्यतः । कुटजो गिरिमल्लिका । शस्त्रमायुधे लोहे । शस्यतेऽनेन शस्त्रम् । नीदाव् ५।२२८८। इति त्रुट् । आयुधे स्त्रीक्लोबे तत्र यथा - शस्त्रेण रक्ष्यं यदशक्यरक्षं न तद्यशः शस्त्रभृतां क्षिणोति ।।४४९।। लोहे यथा - अशस्त्रपूतं निर्व्याजं पुरुषाङ्गोपकल्पितम् । शत्री छुरिकायां । टित्वाद् ङीः । यथा - शस्त्री श्यामैरंशुभिराशु