________________
(२६०)
अनेकाथसंग्रहः सटोकः
स्फारस्तु स्फरकादीनां, बुद्व दे विपुलेऽपि च ॥ स्थिरो मोक्षे निश्चले च, स्थिरा भूः शालपर्ण्यपि ॥४५६।।
यति वा अच् । चतुर्वर्थेषु । श्रेष्ठे वाच्यलिङ्गः। मज्जनि यथा-कौस्तुभाख्यमपांसारं बिभ्रतं वृहतोरसा। यच्छ तिः । अपां वा एष मज्जायद्रत्नानीति । स्थिरांशे स्थिरेऽवयवे यथाश्रीखण्डसारेण चकार देवम् । . बले यथा-यज्ञाङ्गयोनित्वमवेक्ष्य यस्य सारं धरित्री धरणक्षमं च । श्रेष्ठे यथा-परोपकरणं कायादसारात्सारमुद्धरेत् । सारं तु द्रविणन्याय्यवारिषु । द्रविणे यथा-ग्रामात्तसारां रघुरप्यवेक्ष्य निष्क्रष्टुमथं चकमे कुबेरात् । न्याय्ये यथा-रे चित्त वित्तलवलुब्धतया त्वया किं बंभ्रम्यते जगति नैव हि सारमेतत् । वारिणि यथा-अन्तः सारं घनतुलयितुं नानिल: शिक्ष्यति त्वाम् ॥४५५।। स्फारस्तु स्फरकादीनां बुबुदे विपुलेऽपि च । स्फारयते स्फायते) स्फोयते) स्फारः। भी वृधि (उ० ३८७) इति रः। य्वोः प्वय् व्यञ्जने लुगिति य लुक् । विपुले गुणे पुंसि । तद्वति वाच्यलिङ्गः। स्फरकादीनां बुबुदो बुबुदाकारः पित्तलादिमयोऽलङ्कारः । विपुले यथा-अत्युच्चाः परितः स्फुरन्ति गिरयः स्फारास्तथाम्भोधयः । स्थिरो मोक्षे निश्चले च । तिष्ठति स्थिरः । शुषी षि (उ० ४१६) इति किदिरः। निश्चले वाच्यलिङ्गः। मोक्षे यथा-स्थिरं व्रतस्थः पदमश्नुवीत । निश्चले स्थास्नौ यथापृथ्वि स्थिरी (प्र. रा) भव भुजङ्गम धारयैनाम् । स्थिरा भूः शालषर्ण्यपि । भुवि यथा-यत्र स्थिरापि स्थितिमेति न क्षणं का तत्र वार्ता किल तूलराशिषु । शालपर्णी ओषधिः । दृढेऽपि मंखः । यथा-अहो स्थिरः कोऽपि तवेप्सिता युवा ॥४५६॥