________________
प्रथमः काण्डः
* अकारादिक्रमेणादावत्र कादिक्रमोऽन्ततः । उद्देश्यवचनं पूर्व पश्चादर्थप्रकाशनम् ॥ २ ॥ यत्रक एव रूढोथो यौगिकस्तत्र दश्यते ।
अनेकस्मिस्तु रूढेऽर्थे यौगिकः प्रोच्यते न वा ॥३॥ न हि देक्षावतां निष्प्रयोजना प्रवृत्तिर्भवति ॥ १ ॥
अभिधेयस्य परिपाटिविशेषमाह- अत्र इति प्रक्रान्तानेकार्थशब्दसंग्रहशास्त्रे प्रत्येकमेकस्वरादिकाण्डेषु वक्ष्यमाणानेकार्थशब्दानामादौ पूर्वभागे अकारादीनां हकारपर्यन्तानां वर्णानां क्रमेण कृत्वा प्रत्येकमन्तभागे कादिव्यञ्जनानां क्रम आनुपूर्व्या निवेशनम् । अत्र अकारादिक्रमेणेति वदता अन्तक्रमस्यैव प्राधान्यमुक्तम् । काद्यन्तक्रमेणैव अत्र शब्दा अभिधास्यन्ते । अकाराद्यादिक्रमस्तु तत्र प्रत्येकं द्रष्टव्यः । काद्यादिक्रमेऽपि कादिभ्यः परोऽकारादिस्वरक्रमोऽन्तर्गतो द्रष्टव्यः। तथा पूर्वमुद्देश्यस्य शब्दस्य वचन भणनं पश्चादर्थानां प्रकाशनम् । अभिधीयमानशब्दानुपूर्वकमर्थकथनमित्यर्थः । यथा-'को ब्रह्मण्यात्मनि' इत्यादि ॥२॥ - यत्र इति-यस्मिन् शब्द रूढः संझिरूप एक एवार्थः तस्यानेकार्थतादर्शनाय यौगिकोऽप्यर्थोऽवश्य प्रकाश्यते । यथा'गीतिश्च्छन्दसि गाने च' अत्र हि गीतिशब्दरच्छन्दसि संझारूपतया रूढः । गाने तु क्रियानुगमाद्यौ गिकः । यत्र तु शब्देऽनेकोर्थः संज्ञारूपतया रूढो व्यज्यते तत्रानेकार्थतायां परिपूर्णायां यौगिकोऽर्थो दश्य ते वानवा। तत्र दर्य ते यथा- त्वष्टाऽर्के विश्वकृत्तक्ष्णोः' अत्र हि त्वष्टशब्दोऽर्कविश्वकृतोः रूढः तक्षिण तु यौगिकः । न दय ते यथा- 'प्रियकस्तु*प्रत्यन्तरे क्रमोऽत्रादौ ककारादि क्रमोऽन्ततः *प्रत्य० ऋतस्ततः ॥