________________
(२५२)
अनेकार्थसंग्रहः सटोकः
विटे जामातरि श्रेष्ठे, देवतादेरभीप्सिते । वरं तु घुसृणे किञ्चिदिष्टे वरी शतावरी ।।४४०।। वकं पुटभेदे वक्रः, कुटिले क्रूरभूमयोः ॥ वक्त्रमास्ये छन्दसि च, वप्रः प्राकाररोधसोः ॥४४१।।
भो वृद्धि (उ० ३८७) इति र:। लोधे वृक्षविशेषे यथारोध्रद्रुमं सानुमतः प्रफुल्लम् । रोधमघागसोः । अघं पापम् । आगोऽपराधः । रौद्रो भीष्मे रसे तीव्र । रुद्रो देवताऽस्य रौद्रः। भीष्मतीव्रयोर्वाच्यलिङ्गः । सर्वेषु यथा-रौद्रो दक्षविमर्दने च हि सकृन्नग्नः प्रशान्तश्चिरात् । रौद्रोगौर्याम् । अणनेयेकण् २।४।२०। इति डी:। वरो वृतौ। विटे जामातरि श्रेष्ठे देवतादेरभीप्सिते। वरणं वियते वा वरः । युवर्ण ५।३।२८ । इति अल् । श्रेष्ठे पुंक्लीबः । अन्ये वाच्यलिङ्गमाहुः । वृतौ यथा-स्वयम्वरं साधुममस्त बाला ॥४३९।। विटः षिड्गः। यामातरि यथा-वधू वरं सङ्गमयां बभूव । श्रेष्ठे देवतादेः सकाशाद् अभीप्सिते च यथा-समुत्क्षिपन् यः पृथिवीभृतां वरं वरप्रदानस्य चकार शूलिनः । वरन्तु घुसृणे किञ्चिदिष्टे । घुसृणे कुङ्कुमे यथावरतिलकविचित्र भालदेशं वहन्ती। किञ्चिदिष्टे मनागिष्टे यथा-याच्ना माघावरमधिगुणे नाधमे लब्धकामा। अत्र वरमिति शब्द: क्लीबे आविष्ट लिङ्गः। अव्ययमित्यन्ये । वरी शतावरी । गौरादित्वाद् ङीः । शतावरी ओषधिभेदः ।।४४०।। वर्क पुटभेदे । वञ्चति वक्रम् । ऋज्यजि (उ० ३८८) इति कित् रः । न्यङ्कवादित्वात्कत्वम् । पुटभेदो जलावर्तः । तत्र यथा-वक्रेषु नक्राः परिक्रमन्ते । वक्र: कुटिले क्रूरभूमयोः । कुटिलरयोर्वाच्यलिङ्गः । तयोर्यथा-विधौ वके मूनि स्थित