________________
द्वितोयः काण्डः
(२५१) यात्रोत्सवे गतौ वृत्तौ, राष्ट्रमुत्पातनीवृतोः ।। रुरुर्दैत्ये मृगे रेत्र, *पीयूषपटवासयोः ॥४३८।। रेतः सूतकयोरोघ्रो लोधे रोध्रमघागसोः ।।
रौद्रो भीष्मे रसे तीव्र, रौद्री गौर्यां वरो वृतौ ॥४३९॥ मात्रावर्णविभेदेन यदुक्तं लौकिकं द्विधा। मित्रं तु सख्यौ । मेद्यति मित्रम् । चिमिदि (उ० ४५४) इति कित् त्रः। क्लीबे यथा-एकं मित्रं भूपतिर्वा यतिर्वा । मित्रो दिवाकरे। सम्पूर्णविभवश्चन्द्रो न मित्रमनुगच्छति ।।४३७।। यात्रोत्सवे गतौ वृत्तौ। यान्त्यस्यां यानं वा यात्रा। हु यामा इति त्राः । उत्सवे यथा-यात्रा हि चैत्रात्रिदशेश्वराणाम् । गतौ प्रयाणे यथा-यात्रानेहसि यत्र दिग्विजयिनः। वृत्तौ वर्तनापाये यथाशरीरयात्राऽपि न तेन सूत्रिता । व्यवहारेऽपि वर्तनोपायत्वाद् वृत्तिरेव । तत्र यथा-लोकयात्रा भयं लज्जा दाक्षिण्यं त्यागशोलता। राष्ट्रमुत्पातनीवृतोः। राजते राष्ट्रम्। त्रट (उ० ४४६) इति त्रट । पुंक्लीबः । उत्पाते यथा-वाच्यं तस्य न किञ्चनापि विबुधैर्या नैव राष्ट्राकुलः। नीवृति देशे यथा-बुद्धिबुद्धिमतोत्सृष्टा । हन्ति राष्ट्रं स राजकम् । रुरुत्ये मृगे । रौति रुरुः । रुपूभ्याम् कित् (उ० ८०७) इति रुः । पुंसि । दैत्ये राक्षसे यथा-रुराव रुरुवद्रौद्रो रिपुस्तव नराधिप । मृगे मृगविशेषे यथा-शृङ्ग रुरुस्त्यजति मित्रमिवाकृतज्ञः। रेत्रं पीयूषपटवासयोः। रेतः सूतकयोः। रिणाति रीयते वा रेत्रम् । त्रट (उ० ४४६) इति त्रट् । चतुर्यु-अर्थेषु । पीयूषममृतं नव प्रसूतधेनुक्षीरम् वा । पटवासः। पिष्टातकः ॥४३८।। रेतः शुक्रम् । सूतकः पारदः। रोध्रो लोधे। रुणद्धि रुध्यते वा रोध्रः। *प्र. प्रेयूष। प्र० प्रीयूषममृतमित्यर्थ ।