________________
(२५०)
अनेकार्थसंग्रहः सटीकः
मारोऽनङ्गे मृतौ विघ्ने, मारी चण्डयां जनक्षये ॥ मानं त्ववधृतौ स्वार्थे, कात्स्र्ने मात्रापरिच्छदे ।।४३६॥ अक्षरावयवे द्रव्ये, मानेऽल्पे कर्णभषणे ।।
काले वृत्ते च मित्र तु, सख्यौ मित्रे दिवाकरे ॥४३७॥ पुंसि । पर्वते यथा-उत्पद्यतेऽमरमरौ मृतोऽपि व्रतमध्यगः। देशे यथा-किमिक्षोर्दोषोऽयं न पुनरगुणाया मरुभुवः ॥४३५।। मारोऽनङ्गे मृतौ विघ्ने । मारयति मरणम् म्रियतेऽनेन वा मारः । अनङ्गे यथा-सुदुर्वारो मारः प्रसरति जरा यौवनहरा । मृतिविघ्नयोर्यथा-मारो हि शाम्यति महेशतवप्रसादात् । मारी चण्ड्यां जनक्षये । मारयति मारिः । स्वरेभ्य इ: (उ० ६०६) ड्यां मारी। जनक्षये यथा- सम्भवन्ति न यन्नाथ मारयो भुवनारयः । मात्र त्ववधृतौ स्वार्थे कात्स्र्ने (प्र० कात्स्न्ये) मीयतेऽनेन मात्रम् । हु यामा (उ० ४५१) इति त्रः । अवधूताववधारणे यथा-परिगततटभूमिः स्नानमात्रोच्छिताभिः । स्वार्थे यथा-दीपिका कमलेोन्मेषो यावन्माोण साध्यते । कात्स्र्ने यथा-दीयतां विप्रमात्राय । मात्रा परिच्छदे अक्षरावयवे द्रव्ये मानेऽल्पे कर्णभूषणे । काले वृत्ते च । परिच्छदे यथा-महामाौखासत्रुटितरिपुवर्ग: प्रतिदिनम् ।।४३६।। अक्षरं स्वरव्यञ्जनसमुदायः । तस्यावयवः । तत्र अल्पे च यथा-मात्रयाप्यधिक कञ्चिन्न सहन्ते जिगीषवः । इतीव त्वं धरानाथ धारानाथमपाकृथाः । द्रव्ये यथा-मात्रां गृहीत्वा कुरु तीर्थयात्राम् । माने यथा-का मात्रा मम विक्रमायपदं दत्तं गृहीतं मया । कर्णभूषणे यथा-श्रोत्रेषु मात्रां दधते सुगात्र्यः । काले सूक्ष्मे कालविशेषे यथा-एकमात्रो भवेद्धस्वः । वृत्ते छन्दसि यथा