________________
द्वितोयः काण्डः
(२४९)
भूरि स्वर्णे प्रचुरे च, मन्त्री देवादिसाधने ।
वेदांशे गुप्तवादे च, मरुः पर्वतदेशयोः ।।४३५॥ भृमृतत्सरि (उ० ७१६) इत्युः । पुंसि । भर्ता स्वामी। भारो दशशतोद्वये। पलानां वीवधे चापि । भ्रियते भारः । पलानां दशशतीद्वये यथा-हेम्नो भार शतानि वा मदमुचां वृन्दानि वा दन्तिनाम् । वीवधे यथा-हृतेऽपि भारे महतस्त्रपाभरादुवाह दुःखेन भृशानतं शिरः । भीरुोषिति कातरे । विभेतीत्येवंशीला भीरुः । भिया रुरुकलुकम् ५। ७६। इति रुः । योषिति स्त्रीभेदे स व्यसनायां स्त्रियाम् । स्त्रीलिङ्गः। कातरे वाच्यलिङ्गः। योषिति क्रियावचनत्वादून न भवति यथा-असूर्यपश्यरूपा त्वं किमभीरुररार्यसे। यदि जातिवचनत्वं मन्यते तदा भवत्येव ऊड् । यथा-हन्तैकस्थं क्वचिदपि न ते भीरुसादृश्यमस्ति । अत्र ऊडि सति आमन्त्रे ह्रस्वत्वम् । कातरे यथा-अर्द्धाङ्गलपरीणाह जिह्वाग्राया स भीरवः ।।४३४॥ भूरि स्वर्णे प्रचुरे च। भवति भूरि । भूस्तच्छसि (उ० ६९३) इति कित् रिः। स्वर्णे क्लीबे । प्रचुरे वाच्यलिङ्गः। स्वर्णे यथा-भूरिभूषितशरीरयष्टिभिः । प्रचुरे यथा-भूरिभूषणरवैराघोषयत्यम्बरम् । मन्त्रो देवादिसाधने । वेदांशे गुप्तवादे च । मन्त्र्यतेऽनेन मन्त्रणं वा मन्त्रः। देवादयः साध्यन्तेऽनेन देवादिसाधनं महाबीजादि। तत्र यथामन्त्रं तन्त्रमय प्रयुज्य हरतश्चेतोत्पलानां श्रियम् । वेदस्य मन्त्र ब्राह्मणात्मकस्यांशो चेदांशः । तत्र यथा-तत्र मन्त्रपवितं हविः क्रतौ । गुप्तवादो रहसि कर्तव्यावधारणम् । तत्र यथा-मन्त्रो योघ इवाधीरः सर्वाङ्गैः कल्पितैरपि । मरुः पर्वतदेशयोः । म्रियतेऽस्मिन् तृष्णयेति मरुः । भृमृतत्सरि (उ० ७१६) इत्युः।