________________
(२४८)
अनेकाथसंग्रहः सटोकः
mmmmm
मुस्तकश्रेष्ठयोः साधौ, काञ्चने करणान्तरे ॥ भद्रो रामचरे हस्तिजातौ मेरुकदम्बके ॥४३२॥ गवि शम्भौ भद्रा विष्टौ, नभः सरिति कट्फले ।। कृष्णानन्तारास्नासु च भरोऽतिशयभारयोः ।।४३३॥ भरभर्तृकनकयोर्भारो दशशतीद्वये ।
पलानां वीवधे चापि, भीोषिति कातरे ॥४३४॥ न्तरे । भन्दते भद्रम् । भन्देर्वा (उ० ३९१) • इति रो न लोपश्च ।।४३१।। साधुश्रेष्ठयोर्वाच्यलिङ्गः । मङ्गले यथा-हसन्वो भद्राणि द्रढयतु मृडानोपरिवृढः। मुस्तक: कन्दविशेषः । श्रेष्ठः प्रशस्यतमः । साधुः सज्जनः। तयोर्यथा-क्षेमं भद्रकलिन्दशैलतनया तीरे लतावेश्मनाम् । काञ्चने यथा-उन्निद्रभद्रनलिनोपमवक्त्राचंद्रा। करणांतरं वृत्त (नृत्त) विषयो विन्यासविशेषः । भद्रो रामचरे हस्तिजातौ मेरुकदम्बके । गवि शम्भौ ।। रामस्य चरो रामचरः। हस्ति जातौ यथा-भद्रात्मनो दुरधिरोहतनोविशाल (प्र० रोहितनोविशाला)वंशोन्नते मेरुकदम्बके इंति मेरुसमीपवर्तिन एकस्य कदम्बस्य भद्रेति नाम लोके प्रसिद्धम् ।।४३२।। गौर्वृ षविशेषो यस्य मुखे श्वेतस्तिलकः । तत्र यथा-यदनुग्रहतो याति बलीवर्दोऽपि भद्रताम् । शम्भौ यथा-भद्रो भद्राणि पुष्णाति । भद्रा विष्टौ, नभः सरिति कटफले.। कृष्णानन्ता रास्नासु च। विष्टौ यथा-शुक्लाष्टम्यां दिवा भद्रा। नभः सरित् गङ्गा। कटफलम् औषधम् । कृष्णा पिप्पली । अनन्ता दूर्वा । रास्ना एलापर्णी । भरोऽतिशयभारयोः भृश् भरणे इत्यस्य युवर्णेत्यलि भरः। अतिशये यथा-भूरिभारभराक्रांतः। भारे यथा - उत्तुङ्गस्तनभरभङ्गभीरुमध्याम् ॥४३३॥ भरुभर्तृ कनकयोः । बित्ति भ्रियते वा भरुः ।