________________
द्वितीयः काण्डः
(२४७)
पूरः स्यादम्भसो वृद्धौ, वणसंशुद्धिखाद्ययोः । पोत्रं वस्त्रे मुखाग्रे च सूकरस्य हलस्य च ॥४३०।। पौरं कत्तृणे पुरजे, बभ्रुः पिङ्गाग्निशूलिषु ।।
मुनौ विशाले नकुले, विष्णौ भद्रं तु मङ्गले ॥४३१॥ शासति शासितरि दुविनीतानामित्यपादि ॥४२९।। पूरः स्यादम्भसो वृद्धौ व्रणसंशुद्धिखाद्ययोः। पूर्यतेऽनेन पूरः । अम्भसो वृद्धौ यथा-तदयं समुपैति पार्थिवः पयसां पूर इवानिवारितः । व्रणसंशुद्धिः आयुर्वेदप्रसिद्धा । खाद्य विशेषे यथा-पूरैरभ्यर्च्यपूर्देवीम् । पोत्रं वस्त्रे मुखाने च सूकरस्य हलस्य च । पूर्यतेऽनेन पोत्रम् । हलक्रोडास्ये पुवः । ५।२।८९। इति त्रट् । सूकरस्य मुखाने यथा-यस्या एव शिशोः स्थिता विपदि भूः सा पुत्रिणी पोत्रिणी । अत्र पोत्रमस्यास्तीति पोत्रिणी सूकरी ॥४३०॥ पौरं कत्तणे पुरजे । पुरे भवं पौरम् । कत्तृणं रौहिषा(का) ख्या तृणजातिः । पुरजं पुरभवम् । तत्र वाच्यलिङ्गः। यथापुरन्द्रश्री: पुरमुत्पताकं प्रविश्य पौरैरभिन्द्यमानः । बभ्रुः पिङ्गाग्निशूलिषु । मुनौ विशालेनकुले विष्णौ। बिभर्ति बभ्रुः । हनिया (उ० ७३३) इति किदुर्द्वित्वं च । पिङ्गे गुणे पुंसि तद्वति विशाले च वाच्यलिङ्गः। अन्यत्र पुंसि । पिङ्गे यथाधूमधूम्रो वसागन्धिालाबभ्रुशिरोरुहः। अग्निशूलिनोर्यथासंहारकारी जगतोऽपि बभ्रुः । मुनौ यथा-बाभ्रव्यो भ्रमवर्जितः । अत्र हि बभ्रोरपत्यं बाभ्रव्यः। विशाले यथा-रक्षसां सुभ्रुवो भांति पिङ्गैर्बभ्रुनि(भि)रीक्षणैः । नकुले यथा-अहिरेष बभ्रुपुरतो मार्ग निरुध्य स्थितः। विष्णौ यथा-विश्वंभरां बभ्रुरिमां बभार । भद्रं तु मङ्गले । मुस्तकश्रेष्ठयोः साधौ काञ्चने करणा