________________
द्वितीयः काण्ड:
क्षेत्रे ताते चये रेणौ, वज्र कुलिशहीरयोः ॥ बालके वज्रात्वमृता, वर्धः सीसवरत्रयोः || ४४२ ॥ :
(२५३)
वति वयं के पुनरमी । भौमे मङ्गले यथा - अशुभाः स्युस्त्रिकोणस्था मन्दवऋदिवाकराः । वक्त्रमास्ये छन्दसि च । उच्यतेऽनेन वक्त्रम् । हु यामा ( उ० ४५१ ) इति त्रः । आस्ये मुखे पुंक्लीब: । तत्र यथा - तद्वक्त्रं यदि मुद्रिता शशिकथा | छन्दसि यथा - नाद्यास्नौ योऽम्बुधैर्वक्त्रम् । वप्रः प्राकाररोधसोः । क्षेत्रे ताते चये रेणौ । उप्यतेस्मिन् वपति वा वप्रः । भीवृधि इति रः । षट्स्वर्थेषु पुंक्लीबः । पर्वतसानावपि । तत्र प्राकारे च यथा - वप्रेण पर्यन्तचरोडुचक्रः । सुमेरु वप्रोऽन्वहमन्वकारि । रोधस्तंट तत्र यथा - वप्रक्रीडापरिणतगजप्रेक्षणीयं ददर्श ||४४१ ।। क्षेत्रे केदारे यथा - वप्रेषु यस्मिन् हरिणाश्चरन्ति । ताते पितरि यथा - वृद्धे वप्रे गृहपरिसरस्थायिनि प्रायशो वा । मृत्युं प्राप्ते जयति न भवेत्कार्यनिष्पत्तिदोषः । चयः प्राकारपीठभूः । रेणुः पांशुः । स्वर्णसीसकयोरपि मखः । यथावप्रप्रोतं श्रवणयुगलं दोलयन्नेष मूर्खो विश्वं क्रीडाशकुनिसदृशं मन्यते ग्रामवासी । वज्र कुलिशहीरयोः । बालके । वजति वज्रम् । भीवृधि ( उ० ३८७ ) इति रः । पुंक्लीबः । कुलिशे यथा-जडी कृतस्त्र्यंबकवीक्षणेन वज्र मुमुक्षन्निव वज्रपाणिः । हीरो मणिवेधकं रत्नं तत्र यथा - मणौ वज्रसमुत्कीर्णे सूत्रस्येवास्ति मे गतिः । सामान्यरत्नेऽपि । विरलविकीर्णवज्र शकला सकलामिह विदधाति धौतकलधौतमही । बालकं हीवेरं तडित्यपि । वनस्पति वज्र इवावभज्य । वज्रा त्वमृता । अमृता गुडूची । वर्धः सीसवरत्रयोः । वर्द्धते वर्धः । भीवृधि