________________
द्वितीयः काण्ड:
(२४३)
स्वैरे धोरं तु घुसृणे, नरो मर्येऽच्युतेर्जुने । नरं तु रामकर्पूरे, नकं नासानदारुणोः ॥४२३॥ नक्रो यादसि नीव तु, वलीकवननेमिषु ॥
चन्द्रे च रेवतीभे च, नेत्रं वस्त्रे मंथोगुणे ॥४२४॥ साधुः । भुवि यथा-योगी पिता स जनको जननी च धात्री। उपमातरि यथा-कुमाराः कृतसंस्कारास्ते धात्रीस्तनपायिनः । आमलक्यां यथा-पञ्चरसं धात्रीफलम् । जनन्यां यथा-धात्रीस्तन्यनिपानद्धितवपुः। धीरो ज्ञे धैर्यसंयुते स्वैरे। दधाति धीयते वा धीरः । इण् धाग्भ्यां वा (उ० ३८९) इति कित् रः । वाच्यलिङ्गः। विष्वपि यथा-निपातितसुहृत्स्वामिपितृव्य. भ्रातृमातुलम् । पाणिनीयमिवालोकि धीरैस्तत्समराजिरम् । धीरं तु घुसृणे । घुसृणे कुङ्कमे यथा-निजगुणगरिमख्यातिमतः को धीरस्य विदेशः। अत्र श्लेषोत्क्या धीरशब्दः कुङ्कमेऽपि । नरो मर्येऽच्युतेऽर्जुने । नृणाति नरः । म] यथा-नरः संसाराङ्गे विशति यमधानीयमनिकाम् । अच्युते यथा-नरं नमस्कृत्य जगन्नमस्कृतम् । अर्जुने यथा-किन्नरः किं कुबेरः। नरं तु रामकर्पूरे। रामकर्पूरं कर्पूरभेदः। नक्रं नासानदारुणोः। न कामति नक्रम् । नञः क्रमि गमि (उ० ४) इति डिदप्रत्ययः। नखादित्वाद् नञोऽद् न भवति । नासायां यथा-साच्छिन्नकर्णनकापुर एतेषाममङ्गलं जाताः । दारुणोऽग्रमाधारभूतमनदारु ॥४२३।। नको यादसि। यथा-कल्पान्तकालपवनोद्धतनक्र चक्रं को वा तरीतुमल नम्बुनिधि भुजाभ्याम् । नीव्र (नीभ्रं) तु वलीकवननेमिषु । चन्द्रे च रेवतीभे च । नीयते नीव्रम् । खुरक्षुर (उ० ३९६) इति साधुः पञ्चस्वर्थेषु । वलीके पटलान्तरे यथा-गृहाणि नीबैरिव यत्र ।