________________
(२४२)
अनेकार्थसंग्रहः सटीकः
धारो जलधरासारवर्षणे स्यादृणेऽपि च ।। धारोत्कर्षे खड्गाद्यग्रे सैन्याने वाजिनां गतौ ।।४२१॥ जलादिपाते सन्तत्यां, धात्री भुव्युपमातरि ॥
आमलक्यां जनन्यां च, धीरो ज्ञे धैर्यसंयुते ॥४२२॥ मिवार्थसिद्धेः। धरः कूर्माधिपे गिरौ । कार्पासे तूले । कर्पासतूले। धरति धरः। कूर्माधिपे महाकमठे यथा-ध्रुवं दधे धरोधराम् । गिरौ यथा-धरस्य प्रोद्धर्ता त्वमिति न तु सर्वत्र जगति प्रतीतः। कसितूलम् तन्तुकारणम् । अथ धरामेदोभूमिजरायुषु । मेदश्चतुर्थो धातुः। भूम्यां यथा-धराधरेन्द्रं व्रततीततीरिव । जरायुर्गर्भवेष्टनम् ॥४२०॥ धारो जलधरासारवर्षणे स्यादणेऽपि च । ध्रियते धारः। जलधरासारवर्षणे यथाधाराधरे वर्षति वारिधारैः। ऋणे यथा-पितुः स्फारं धारं क्षिपति नृपतिः शात्रववधात् । धारोत्कर्षे खड्गाद्यग्रे सैन्याने वाजिनां गतौ। जलादिपाते संतत्याम् । ध्रियतेऽनया धारा भिदादित्वात् साधुः । दधाति वा । इण् धाग्भ्यां वा उ० ३८७) इति रः। उत्कर्षे यथा-धाराधिरूढो रसः । खड्गाद्यग्रे खङ्गस्यादिशब्दात् चक्रादीनामपि । अग्रेऽश्री यथा-धारातीर्थे धरणिपतयः कल्मषं क्षालयन्ति। सैन्याने यथा-धाराद्वयं परिगताः सुभटा नटन्ति। वाजिनां गतौ गतिविशेषे धौरितकादौ यथा-अव्याकुलं प्रकृतमुत्तरकर्मधेयधाराः प्रसाधयितुमव्यतिकीर्णरूपाः ॥४२१॥ जलादिपाते यथा-अयमपि पटुर्धारासारो न बाणपरम्परा । सन्तत्यामनवच्छिन्नसन्ताने यथा - धारावाहिषु बोधेषु कोऽधिकार्थः प्रकाशते। धात्री भुव्युपमातरि । आमलक्यां जनन्यां च । दधाति धात्री तृजन्ताद् ङीः । धयन्ति एनां धीयते वा धात्रीति