________________
द्वितीय काण्डः
(२४१)
तोत्रं वेणुके प्रतोदे, दरः स्याद्भयगर्तयोः ।। दरी तु कन्दरे दस्रः, खरो दस्रो रवेः सुतौ ॥४१९।। द्वारं निर्गमेऽभ्युपाये, धरः कर्माधिपे गुरौ ।
कसितूलेऽथ धरा मेदो भूमिजरायुषु ॥४२०॥ वातहरं प्राहुः । उष्णे यथा-तीवांशुभिन्नमिव शार्वरमन्धकारम् । अत्यर्थे यथा-तीव्राभिषङ्गप्रभवेन वृत्ति मोहेन संस्तम्भयतेन्द्रियाणाम् । तीव्रा तु कटुरोहिणी । गण्डदूर्वा सुरी। त्रयोऽप्योषधिभेदाः । तीरो वङ्गे। तीर्यते तीरः । वङ्गं त्रपु । तीरं पुनस्तटे । यथा-तीरात्तीरमुपैति रौति करुणम् ॥४१८।। तोत्रं वेणुके प्रतोदे । तुद्यतेऽनेन तोत्रम् । नीदांव् ५।२।८८। इति त्रट् । वेणुकं हस्त्यारिका। तत्र यथा - महामात्रस्तोत्रौस्तुदति समदं दुष्टकरिणम् । प्रतोदः प्रा (प्रयो)जनं तत्र यथा-तमः पिपिक्षोररुणस्य दीव्यत्तोत्रागिरो नो गणयन्ति धुर्याः। दरः स्याद्भयगतयोः। दीर्यतेऽनेनऽसौ वा दरः । भये पुंक्लीबः । गर्ने त्रिलिङ्गः । भये यथा-अमर्षशून्येन जनस्य जन्तुना न जातहार्देन च विद्विषादरः। गर्ते यथा-स्थाने समीकृतदरे कण्टकादिविशोधिते। दरी तु कन्दरे । गौरादित्वाद् ङीः। कन्दरो गिरिगुहा । यथा-दरोगृहद्वारिविलम्बिबिम्बाः। ईषदर्थे तु दरेत्यव्यम् देश्यपदं वा । यथा-दरदलितहरिद्रा पिञ्जराण्यङ्गकानि । दस्रः खरः। दस्यति दस्रः। भीवृधि(उ० ३८७) इति रः । खरो रासभः । दस्रौ रवेः सुतौ । रवेः सुतौ स्वर्वैद्यौ तत्र द्विवचनान्तः । यथा-अनुसस्रतुस्तमथदस्रयोः सुतौ ।।४१९।। द्वारं निर्गमेऽभ्युपाये । द्वारयति द्वारम् । उभ्यते वा । द्वारशृङ्गार (उ० ४११) इति साधुः। निर्गमे यथा-हंसद्वारं भृगुपतियशोवर्त्म यत् क्रौञ्चरन्ध्रम् । अभ्युपाये यथा-शृङ्गान्तरं द्वार