________________
द्वितीयः काण्ड:
(२३९)
अमृतायां च नद्ध्यां च, सिरायां वपुषोऽपि च ॥ तरिर्दशायां बेडायां, वस्त्रादीनां च पेटके ॥४१५॥ तन्द्री निद्रा प्रमीला च, तारो निर्मलमौक्तिके ॥
मुक्ताशुद्धावुच्चनादे, नक्षत्रनेत्रमध्ययोः ॥४१६।। श्लेषः । यदाह-साधारणं भवेत् तन्त्रम् । यथा श्वेतो धावति इत्यादि । तत्र यथा-तन्त्रोक्तिभिः सूचितगूढभावा वेश्या हठादेव विमोहयन्ति । इति कर्तव्यतायां यथा-कुर्वन्ति किं कृतधियोऽपि हि तन्त्रमूढाः । तन्तौ यथा-तन्त्रं प्रसारयति पश्यत तन्तुवायः । तन्त्री स्याद् वल्लकीगुणे अमृतायां च नद्ध्यां च सिरायां बपुषोऽपि च । चतुर्वर्थेपु स्त्रियाम् । गौरादित्वाद्डीः। तस्त तन्द्रि तन्त्रि (उ० ७११) इति ईप्रत्यये तन्त्रीरिति ईकारान्तोऽपि । वल्लकी गुणे यथा-तन्त्री माद्रां नयनसलिलैः सारयित्वा कथंचित् । अमृता गुडूची। नधी वद्धी। वपुषः सिरायां नाड्यां यथा-तन्त्र्यः खड्गप्रहारैर्धगितिगलद्रक्तधाराप्रतानाः । तरिर्दशायां बेडायां (नौकायां) वस्त्रादीनां च पेटके। तरति तीर्यतेऽनया वा तरिः। स्वरेभ्य इ. (उ० ६०६) इतोऽत्क्यर्थात् २।४।३२। इति वा ङयां तरीति ईप्रत्ययान्तोऽपि । दशाऽवस्था। बेडायां नावि यथा-तरीषु तत्रत्यमफल्गु भाण्डं सांयात्रिकानां वपतोऽभ्यनन्दत् । वस्त्रादीनां पेटके स्थानविशेषे ॥४१५।। तन्द्री निद्रा प्रमीला च । तन्द्रिः “सौत्रः । तन्द्रयतेऽनया तन्द्रिः। पदि पठि (उ० ६०७) इति इः। ड्यां तन्द्री। ईप्रत्ययान्तोऽपि । निद्रा स्वापः । प्रमीला इन्द्रिय स्त्यानता आलस्यमिति यावत् । द्वयोर्यथा-ऐन्द्रिणाऽपि यदुदस्ततन्द्रिणा सेव्यते सरभसंवृषध्वजः । तारो निर्मलमौक्तिके । मुक्ता