________________
(२३८)
अनेकार्थसंग्रहः सटोकः
तन्त्रं सिद्धान्ते राष्ट्रे च, परच्छन्दप्रधानयोः ॥ अगदे कुटुम्बकृत्ये तन्तुवाने परिच्छदे ॥४१३॥ श्रुतिशाखान्तरे शास्त्रे, करणे व्यर्थसाधके ॥
इति कर्तव्यता तन्त्वोस्तन्त्री स्याद्वल्लकी गुणे ॥४१४॥ . दित्वाद् ङ्यां जारी यथा – नृपशिखिसहजनजारी हस्तगो अश्रुकन्या । जीरस्त्वजा(य्यां)ज्यां खङ्गे च । जयति जीरः। चिजि (उ० ३९२) इति रो दीर्घत्वं च । अजाज्यां पुंल्कीबः । टारो लङ्गतुरङ्गयोः टीकते टारः। द्वारशृङ्गारेत्यारे साधुः । लङ्गः षड्जः (प्र० षिङ्गः) द्वयोर्यथा उदारैः परितुष्यन्ति टारैः शृङ्गारिणो नृपाः ॥४१२।। तत्रं सिद्धान्ते राष्ट्रे च परच्छन्दप्रधानयोः । अगदे कुटुम्बकृत्ये तन्तुवाने परिच्छदे । श्रुतिशाखान्तरे शास्त्रे करणे द्वयर्थ साधके । इति कर्तव्यतातन्त्वोः तन्यते तन्त्रम् । हु यामा (उ० ४५१) इति त्र: तन्त्र्यते वा। चतुर्दशष्वर्थेषु सिद्धान्ते यथा-चतुष्पीठीमिदं तन्त्रम् । राष्ट्र राष्ट्रचिन्ता तत्र यथा- शमव्यायामाभ्यां प्रतिविहिततन्त्रस्य नृपतेः । परच्छन्दे परायत्ते यथा-स्मरशबरतन्त्रं जगदहो। प्रधाने यथा-अतन्त्रं संसारो भवति विदिते तत्वविभवे । अगदे भेषजे यथा-मन्त्रं तन्त्रमथ प्रयुज्य हरत श्वेतोत्पलानां श्रियम् । कुटुम्ब परिवारस्तस्य कृत्यं धारणम् । कुटुम्बकृत्यम् । तन्तुवानं तन्तुवायोपकरणम्। तत्र यथा-तन्त्रादचिरोद्धृतस्तन्त्रकः। पट: । परिच्छद: सैन्यादिरूपः । तत्र यथा-भोज त्वत्तन्त्रमात्रप्रसरभरभयव्यकुलो राजलोकः ॥४१३।। श्रुतेर्वेदस्य शाखान्तरं शाखाभेदः। शास्त्रे यथा-द्वित्रान् स्वतंत्रसमयानुगतान् विशेषानुक्त्वाऽवगच्छति जगज्जितमेव मूढः। करणं निधुवनम् । द्वयर्थसाधकः