________________
द्वितोयः काण्ड:
(२३७)
wwwwwwwww
vvvvvvv
छत्र स्यादातपत्राणे, छत्रा मधुरिकौषधौ । धान्यके च शिलीन्ध्रे च, छिद्रं विवररन्ध्रवत् ॥४११॥ गर्ने दोषे जारस्तूपपत्तौ जाषिधीभिदि ।
जीरस्त्वजाज्यां खड्ने च, टारो लङ्गतुरङ्गयोः ॥४१२॥ छत्रं स्यादातपत्राणे । छाद्यतेऽनेन छत्रम् । त्रट । छदेरिस्मन्त्रट् क्वौ । ४ । २ । ३३ । इति ह्रस्वः। त्रिलिङ्गः। यथा-रजो विश्रामयन राज्ञां छत्रशून्येषु मूर्धसु। छत्रा मधुरिकौषधौ । धान्यके च शिलिन्ध्रे च । छादयति छत्रा। हु माया (उ० ४५१) इति । बाहुलकात् ह्रस्वः । मधुरिका गुल्मभेदो मिन्तिकाख्यः। धान्यकं कुस्तुम्बुरुः शिलिन्ध्र भूमिस्फोटम् । छिद्रं विवररन्ध्रवत् । गर्ते दोषे । छिनत्ति छिद्यते वा छिद्रम् । ऋज्यजि (उ० ३८८) इति कित् रः। विवियते विवरम् । अल् । रध्यते रन्ध्रम् । खुर क्षुर इति साधुः । यथा विवररन्ध्रशब्दौ गर्तदोषयोर्वर्तेते तथा छिद्रशब्दोऽपीत्यर्थः । विवरशब्दस्त्र्यक्षरोऽपि लाघवार्थ मिहोपात्तः। छिद्रशब्दो द्वयोर्यथा-भुजङ्गमा इव परिच्छिद्रान्वेषिणः ॥४११॥ विवरशब्दो गर्ते यथा-पातालप्रतिमल्लगल्लविवरप्रक्षिप्तसप्तार्णवम् । दोषे यथा-अप्राप्तविवरः शक्रः स्वल्पोऽपि हि दुरासदः। रन्ध्रशब्दो गर्ते यथा-निविशते रन्ध्रमन्ध्रो गिरीणाम् । दोषे यथा-सम्मुखीनो हि जयो रन्ध्रप्रहारिणाम् । तरुच्छिद्रप्रोतान् . विसमितिकरी संकलयति । नीर(रा) ङी विवरार्पितं कुलवधू लीला कटाक्षं नुमः । नीरन्ध्रद्रुमशिशिरां भुवं भजन्ती इत्यादी. गर्तोपचारादन्तरालेऽपि । जारस्तूपपत्तौ। जीर्यतेऽनेन जारः । न्यायावाया ५। ३ । १३४ । । इति साधुः। यथा - अहल्याया जारः सुरपतिरभूत् । जाषिधीभिदि । गौरा: