________________
(२३६) अनेकार्थसंग्रहः सटोकः
चीरं वाससि चूडायां, गोस्तने सीसपत्रके । चीरो कच्छाटिकाझिल्ल्योश्चक्रस्त्वम्लेऽम्लवेतसे* ॥४०९।। वृक्षाम्ले चुक्री चाङ्गे-, चैत्रो मासाद्रिभेदयोः । चैत्रं मृतकचैत्ये च, चौरो दस्युसुगन्धयोः ॥४१०॥
मसोरिव । उरगभेदः सर्पभेदः ।।४०८।। चीरं वाससि चूडायां गोस्तने सीसपत्रके । चीयते चीरम् । चि जि (उ० ३९२) इति रो दीर्घत्वं च । वाससि यथा - ते त्र्यहादूर्ध्वमाख्याय चेलुश्चीरपरिग्रहाः। चूडा शिखा । गोस्तनो हारभेदः। सीसपत्रक सीसकम् । चीरी कच्छाटिकाझिल्योः । चीरी गौरादित्वाद् डीः। कच्छाटिका लम्बमानः परिधानपश्चादञ्चलः। झिल्लीकीटप्रायः प्राणिभेदः। तत्र यथा-चारुश्वीरीरव इव पुरः श्रूयते कोऽयमुच्चैः। चुक्रुस्त्वम्लेऽम्लवेतसे । वृक्षाम्ले । चकतेऽनेन चुक्रम् । चकि रमि विकसेरुचास्य (उ० ३९३) इति रः। पुंक्लीबः । अम्लरसे यथा- चुक्रो रस इवोद्रिक्तपित्तहेतुतया मतः। तद्योगात्काञ्चिकादावपि । अम्लवेतसो वृक्षविशेषः ।।४०९॥ वृक्षाम्लं वेषवारविशेष: । चुक्री चाङ्गेर्याम् । गौरादित्वाद् ङीः। चाङ्गेरी औषधिः । चैत्रो मासाद्रिभेदयोः । चैत्री पौर्णमासी अस्य चैत्रः। साऽस्य पौर्णमासी । ६ । २ । ९८। इत्यण् । चीयते वा। खुर क्षुर (उ० ३९६) इति साधुः । मासे यथा-मालती विमुखश्चैत्रो विकासी पुष्पसम्पदाम् । चैत्रं मृतकचैत्ये च । मृतकचैत्यं यद्दग्धस्य निखातस्य वा उपरि स्तम्भादि क्रियते । चौरो दस्युसुगन्धयोः। चोरयति चोरः। वाच्यलिङ्गः। दस्यौ यथा-प्राप्तः सीमन्तिनीनां मधुसमयसुहन्मानचोरः समीरः। सुगन्धं सुरभि ॥४१०।।
*प्र० त्वम्ब्लेऽम्ब्लवेतसे ॥ वृक्षाम्ब्ले०।