________________
द्वितीयःकाण्डः
(२३५)
आले हो कर्बुरे चित्रा त्वाखुपर्णीसुभद्रयोः ॥ गोडुम्बाप्सरसोर्दन्त्यां, नक्षत्रोरगभेदयोः ॥४०८॥
चरन्ति अस्माद् दैवपितृभूतानीति वा चरुः। मि वहि (उ० ७२६) इति उः। पुंसि। हव्यान्ने यथा-हेमपात्रीकृतं दोामाददानः पयश्चरुम् । भाण्डे यथा-उत्पलकाञ्चिकचरुः वात्मनः पार्श्वदाहकः। चारो बन्धावसर्पयोः। गतौ पियाल वृक्षे च। चर्यतेऽनेन चारः । चर एव वा प्रज्ञादित्वादण् । चरणं वा घञ । बध्यतेऽस्मिन् बन्धः बन्धनशाला तत्र यथासंसारचारान्तर कांदिशीकः। अवसर्प हेरिके यथा-क्रियासु युक्तैर्नृपचारचक्षुषो न वञ्चनीयाः प्रभवोऽनुजीविभिः । गतौ यथा - चकोरहर्षीयति चारचौरो वियोगिनी वीक्षितनाथवा। पियालवृक्षे यथा-चारवश्चारफलिकाः। चित्रं खे तिलकेऽद्भुते । आलेख्ये कर्बुरे। चीयते चित्रम्। चि मिदि उ० ४५४) इति कित् त्रः। कबुरे गुणे पुंसि । तद्वति वाच्यलिङ्गः। खे आकाशे आलेख्ये च यथा - चित्रेण जायते चित्रम् । तिलके यथा-चित्रचित्रितललाटपट्टिका। अद्भुते यथा-किमत्र चित्रं यदि कामसूर्भूः ।।४०७।। कर्बुरे यथा-भात्यलं करणरश्मिरञ्जितं चित्रवर्णमिव शक्रकार्मुकम् । चित्रं चकार पदमर्द्धपुलालयेनेत्यादौ कर्बुरो (प्र. कर्बुरत्वो)पचाराद् नानाप्रकारेऽपि । चित्रा त्वाखुपर्णीसुभद्रयोः । गोडुम्बाप्सरसोर्दन्त्यां नक्षत्रोरगभेदयोः । आखुपर्णी ओषधिः। सुभद्रायाम् अर्जुनपल्यां यथा-चित्रं चित्राहरणचतुरे फाल्गुने स्नेहयोगात् शान्ति चक्रे भुवनविजयी सोऽपि कालेयकारिः। गोडुम्बा इन्द्रवारुणी । अप्सरा अप्सरोभेदः। दन्ती ओषधिः । नक्षत्रभेदे यथा-हिमनिर्मुक्तयोर्योगे चित्राचन्द्र