________________
(२३४) अनेकार्थसंग्रहः सटोकः
जलावत छले चक्रः कोके चन्द्रोऽम्बुकाम्ययोः ॥ . स्वर्णे सुधांशौ कपुरे कम्पिल्ये मेचकेऽपि च ॥४०६॥ चरुहव्यान्ने भाण्डे च चारो बन्धावसर्पयोः ।
गतौ पियालवृक्षे च, चित्रं खे तिलकेऽद्भुते ॥४०७।। यथा-एतत्पूतनचक्रमक्रमकृतग्रासार्द्धमुक्तैर्वृ कान् । कुलालोपकरणे यथा - प्रियसखि विपद्दण्डप्रान्तप्रपातपरम्परापरिचयचलचिन्ता च के निधाय विधिः खलः। आदिशब्दात् दशस्तनासमं चक्रमित्यादौ तैलिकोपकरणेऽपि । तथा- आरोग्य चक्रभ्रममुष्णतेजास्त्वष्ट्रे च यत्नोल्लिखितो विभाति-इत्यादौ शिल्पिभाण्डेऽपि । सैन्ये यथापरचक्रप्रमथनं सदा विजयवर्द्धनम् । रथाङ्गे यथा-रथस्यैकं चक्रं भुजगयमिताः सप्ततुरगाः ॥४०५॥ जलावर्ते यथा-चक्राणि निर्मूलजलाकुलितोदराणि । छले दम्भे यथा-विरूपाक्षोऽपि चक्रधरः। अत्र खलपक्षे चक्रं दम्भं धरतीति चक्रधरः । चक्र: कोके । कोके चक्रवाके यथा-चक्रावक्रितकन्धरास्तटभुवि प्रातर्भजन्ते श्रियम्। चन्द्रोऽम्बुकाम्ययोः । स्वर्णे सुधांशौ कर्पूरे कम्पिल्ये मेचकेऽपि च । चन्दति चन्द्रः । भीवृधि इति रः । सप्तष्वर्थेषु । कर्पूरस्वर्णयोः पुंक्लीबः । अम्बुनि यथा-चन्द्रेण विद्रातितरां पिपासा । काम्ये प्रशस्ये यथा-स्वैरे सात्विकचन्द्रसंदिशततः किं ते प्रियं कुर्महे । स्वर्णे सुधांशौ च यथा नमस्तुङ्गशरश्चम्बिचन्द्रचामरचारवे । कर्पूरे यथा - नाभेरेकारवेस्तिस्रोद्वेचन्द्रस्य कुरु प्रिये । कम्पिल्यम औषधभेदः । मेचको मयूरपिच्छादिस्थं रेखावलयम् । तत्र यथा - पादुद्रुवत्सपदि चन्द्रकचान् द्रुमाग्रात(प्र० न्)। अत्र चन्द्रक एव चन्द्रकस्तद्वान् मयूरः ।।४०६॥ चर्हव्यान्ने भाण्डे च । चर्यते भक्ष्यतेऽसौ