________________
द्वितीयः काण्डः
(२३३)
रजन्यां रोचनीनद्योर्घस्रो वासरहिंस्रयोः ।। घोरो हरे दारुणे च चरः स्याज्जङ्गमे स्पशे ॥४०४॥ चले द्यूतप्रभेदे च चक्र प्रहरणे गणे ॥
कुलालाद्युपकरणे राष्ट्र सैन्यरथाङ्गयोः ॥४०५।। उमायां यथा-क्रीडाशैले यदि च विचरेत्पादचारेण गौरी । नग्निका अदृष्टरजाः कन्या तत्र यथा-गौरी श्रेष्ठा विवाहे स्यात् । उर्वी मही । प्रियङ्ग कङ्गः। वरुणस्त्री वरुणभार्या ।।४०३।। रजनी हरिद्रा। रोचनी मनःशिला। नदी नदीविशेषः । घस्रो वासरहिंस्रयोः। घसति घस्रः। भीवृधि (उ० ३८७) इति रः। वासरो दिनम् । तत्र यथा-जगद्धि (द्वि)गमघस्रघस्मरसहस्रभानुप्रभापरिक्वथितपिण्डितो लवणकूटमेवार्णवः । हिंस्रो घातकस्तत्र वाच्यलिङ्गः। घोरो हरे दारुणे च । हन्ति घोरः । कोर चोर (उ० ४३४) इति साधुः। घुरति वा। दारुणे वाच्यलिङ्गः। हरे यथा-घोरः पूरयतां मतम् । दारुणे यथा-अत्रामिषोपचितवल्गदमूकघूकपू(घू.)त्कारपोरशिखरस्य तरोः प्ररोहः। चरः स्याज्जङ्गमे स्पशे चले द्यूतप्रभेदे च। चरति चरः । जङ्गमे चले च वाच्यलिङ्गः। जङ्गमे यथा - चराचराणां भूतानां कुक्षिराधारतां गतः। स्पशः प्रणिधिः। तत्र यथा-राजन्यकान्युपायजै रेकार्थानि चरैस्तव ॥४०४॥ चले यथा-यात्रा चरेषु कर्तव्या । द्यूतप्रभेदे यथागमे नष्टे चरं कुर्यात् । चक्र प्रहरणे गणे। कुलालाद्युपकरणे राष्ट्र सैन्यरथाङ्गयोः । जलावर्तेच्छले । क्रियते चक्रम् । कृगो द्वे च । (उ० ७) इति अप्रत्ययो द्वित्वं च । पुंक्लीबः । प्रहरणे राष्ट्रे च यथा- हस्तस्थिताखण्डितचक्र शालिनः । गणे सङ्के