________________
(२३२)
अनेकार्थसंग्रहः सटीक:
वने नाम्नि च गोत्रोऽद्रौ, गोत्रा भुवि गवाङ्गणे । गौरः श्वेतेऽरुणे पोते, विशुद्धे चन्द्रमस्यपि ॥४०२॥ विशदे गौरं तु श्वेतसर्षपे पद्मकेसरे ॥
गौर्युमानग्निको»षु प्रियङ्गौ वरुणस्त्रियाम् ॥४०३।। त्रायते इति वा। क्षेत्रे यथा-गोत्रं मणेरस्य स रोहणाद्रिः । अन्वयः कुलम् । तत्र यथा-सोऽयं गोत्रे सवितुरुदितो वारिधेर्यद्वदिन्दुः । छत्रम् आतपत्रम् । सम्भाव्यो बोधः सम्भाव्यबोधः । वर्त्म मार्गः ॥४०१।। वनं काननम् । नाम अभिधा । तत्र यथामद्गोत्रात विरचितपदं गेयमुद्गातुकामा। गोत्रोऽद्रौ । गां पृथ्वी त्रायते गोत्रः । यथा-रघोदवष्टम्भमयेन पत्रिणा हृदि क्षतो गोत्रभिदप्यमर्षणः । गोत्रा भुवि गवाङ्गणे । गास्त्रायते गोत्रा । गवां समूहो वा । गोरथवातात् ६।२।२४ । इति त्रल। भुवि यथा-गोत्रत्राससमाकुला मधुरिपुं प्राप्ता शरण्यं विभुम् । गवाङ्गणे गोसमूहे यथा-गोत्रात्राणमिषेण दर्शितबल: शौरिः स वस्त्रायताम्। गौरः श्वेतेऽरुणे पोते विशुद्धे चन्द्रमस्यपि । विशदे। गूयते गौरः। खुर क्षुर (उ० ३९६) इति साधुः। चन्द्रमसि पुंल्लिङ्गः। शेषेषु गुणे पुंसि तद्वति वाच्यलिङ्गः। श्वेते यथा-कैलाशगौरं वृषमारुरुक्षोः। अरुणे यथा-ज्वलितखदिरकाष्ठाङ्गारगौरं विवस्वान् । पीते यथात्वं रोचना गौरशरीरयष्टिः। विशुद्धे यथा-स्नानेन गौरं वपुः। चन्द्रमसि यथा-गौरश्चोरित(गौरश्चूरित)शर्वरीचर (वर) तमस्तोमो यमभ्युद्यतः ।।४०२॥ विशदे यथा-इतस्ततश्चन्द्रमरीचिगौरैः । गौरं तु श्वेतसर्षपे पद्मकेसरे। श्वेतसर्षपः सर्षपभेदः। पद्मकेसरं पद्मकिजल्कः । तयोः क्लीबे। गौर्युमानग्निकोर्वीषु प्रियङ्गौ वरुणस्त्रियाम् । रजन्यां रोचनीनद्योः । गौरादित्वाद्यां गौरी।