________________
द्वितीयः काण्डः
(२३१)
अलघौ दुर्जरे चापि, गृध्रो गृध्नौ खगान्तरे ।
गोत्रं क्षेत्रेऽन्वये छत्रो, सम्भाव्यबोधवर्त्मनोः ॥४०१।। तेषु यथा - गुन्द्राप्ररोहकवलावयवावकीर्णम् । गुरुर्महत्याङ्गिरसे पित्रादौ धर्मदेशके अलघौ दुर्जरे चापि । गृणाति गीर्यते वा गुरुः । ऋग्र ऋत उर् च (उ० ७३४) इत्युः । षट्स्वर्थेषु । महत्यलघौ दुर्जरे च वाच्यलिङ्गः। महान् बृहत् गौरवाहे वा। तत्र क्रमेण यथा-कृतगुरुतरहारच्छेदमालिङ्ग्यपत्यौ । यथा च । गुरुर्धरित्री क्रियतेतरां त्वया आङ्गिरसे बृहस्पतौ यथा-गुरु नेत्रसहत्रेण प्रेरयामास वासवः (प्र. वृत्रहा)। पित्रादौ यथा-गुरुः प्रगल्भेऽपि वयस्यतोऽस्याः । आदिशब्दात् सुता सम्बन्धविधिना भवति (प्र. भव) विश्वगुरोर्गुरुरित्यादौ । श्वशुरेऽपि । एकमप्पक्षरं यस्तु गुरुः शिष्ये निवेदयेत् । इत्यादावुपाध्यायेऽपि । गुरोः सदारस्य निपीड्य पादौ समाप्य सान्ध्यं च विधिं दिलीपः । इत्यादौ संस्कारकेऽपि । गुरुद्वयाय गुरुणोरुभयोरथ कार्ययोरित्यादावाराध्येऽपि । धर्मदेशके यथा-सामायिकस्था धर्मोपदेशका गुरवो मताः ॥४००।। अलघुर्भारयुक्तः, तत्र यथा-गोरवे तु सुवर्णस्य साक्षिणी जगतां त्रयो । अत्र हि गुरोर्भावो गोरवम् । यथा-वा सा क्रान्ता जघनस्थलेन गुरुणा गन्तुं न शक्ता वयम् । दुर्जरे यथा-गुरुः सूकरमांसानामाहारो हि भवेन्नृणाम् । गृध्रो गृध्नौ खगान्तरे । गृध्यति गृध्रः। ऋज्यजि (उ० ३८८) इति कित् रः । गृध्नौ लोभवति वाच्यलिङ्गः । तत्र यथा-गृध्रा हि गृध्यन्त्यपनीति वर्त्मना । खगान्तरे यथा-गृध्रपक्षपरिधूसरालकाः। गोत्रं क्षेत्रेऽन्वये छत्रे सम्भाव्यबोधवर्त्मनोः । वने नाम्नि च । गूयते गोत्रम् । हुयामा (उ० ४५१) इति त्रः। गाः किरणान्