________________
(२३०)
अनेकार्थसंग्रहः सटीकः
गजानदेशेऽथ गिरिः पूज्येऽक्षिरुजि कन्दुके ॥ शैले गिरियके गीर्णावपि गुन्द्र स्तु तेजने ।।३९९।। गुन्द्रा प्रियङ्गौ कैवर्तीमुस्तके भद्र मुस्तके ।।
गुरुर्महत्याङ्गिरसे, पित्रादौ धर्मदेशके ॥४००। शरणं श्रितः। गरं स्यात्करणे । करणं बवादि। तत्र यथा-गरवाणिजविष्टिकरणैः। गात्रमङ्गशरीरयोः गजाग्रदेशे। गच्छत्यनेन गात्रम् । गमेरा च (उ० ४५३) इति त्रः। गजाग्रदेशे स्त्रीक्लीबः। अङ्गमवयवस्तत्र यथा-तद्गात्राणां गुणविनिमयः कल्पितो यौवनेन । शरीरे यथा-अपरिचलितगात्राः कुर्वते न प्रियाणामशिथिलभुजचका लेषभेदं तरुण्यः ॥३९८॥ गजस्य अग्रदेशोऽग्रजङ्घादिविभागस्तत्र यथा-आपस्कारा लूनगात्रस्य भूमि निःसाधारं गच्छतो वाङ्मुखस्य लब्धायाम दन्तयोर्युग्ममेव त्वं (प्र० स्व)नागस्य प्रापदुत्तम्भनत्वम् । अथ गिरिः पूज्येऽक्षिरुजि कन्दुके । शैले गिरियके गीर्णावपि । गृणाति गिरति गीर्यते वा गिरः । नाम्युपान्त्य ५।१।५४। इति किदिः। षट्स्वर्थेषु पूज्ये वाच्यलिङ्गः। अन्यत्र पुंसि । पूज्ये यथावृक्षागारेषु शेते गिरति मुनिगिरिसमात्रं पवित्रम्। अक्षिरुजि नयनरोगे यथा-गिरिणा दूषितं नेत्रम् । कन्दुको वस्त्रादिमयं क्रीडनकम् । गिरियको गिरिगुडः काष्ठादिमयं क्रीडनकम् तयोर्यथा-क्रीडन्ति गिरिभिरपि ये कष्टं तेषां न भूधराक्रमणम् । शैले यथा-वहति गिरिरयं विलम्बि घण्टाद्वयपरिवारितवारणेन्द्रलीलाम् । गीणिरभ्यवहारः। गुन्द्र स्तु तेजने। गुद्यते गुन्द्रः । खुर क्षुर (उ० ३९६) इति साधुः। तेजना मुजः ॥३९९।।
प्रयङ्गौ कैवर्तीमुस्तके भद्रमुस्तके। त्रयोऽप्योषधिभेदाः ।