________________
द्वितीयः काण्ड:
(२२९)
खरो रक्षोऽन्तरे तीक्ष्णे दुःर पर्श रास मेऽपि च ॥ खरुः स्यादश्वहरयोदर्पदन्तसितेषु च ॥३९७।। खुरः शफे कोलदले गरस्तूपविषे विषे ॥ . रोगे गरं स्यात्करणे गात्रमङ्गशरीरयोः ॥३९८॥
क्षौद्रं तु मधुनीरयोः । क्षुद्राभिः वृतं क्षौद्रम् । नाम्नि मक्षिकादिभ्यः । ६।३।१९३। इत्यण् । क्षुद्यति वा। खुर क्षुर
(उ० ३९६) इति साधुः। मधुनि यथा-तस्तार सरघाच्छन्नैः सक्षद्रिपटलैरिव ॥३९६॥ खरो रक्षोऽन्तरे तीक्ष्णे दुःस्पर्श रासभेऽपि च । खनति खरः। खुर क्षुर (उ० ३९६) इति साधुः। रूमरयारतीति वा मध्वादित्वात् रः। चतुषु अर्थेषु । तीक्ष्णे दुःस्पर्श च वाच्यलिङ्गः। रक्षोन्तरे यथा - संहारे खरदूषणत्रिशिरसामेषाव दृष्टा स्थितिः। तीक्ष्णे यथा-प्रेवत्खड्गानधाराख रनखरशिखोरखातकुम्भी न कुम्भः। दुःस्पर्श यथा-प्रेवन्तः खे खरांशोः खचितदिनमुखास्ते मयूखाः सुखं वः। रासभे यथा-तावत्खरः प्रखरमुल्लमयाम्बभूव । खरुः स्यादश्वहरयोदर्पदन्तसितेषु च । खनति खरुः । खनो लुक् च (उ० ८०८) इति रुः । पञ्चस्वर्थेषु । सिते गुणे पुंसि । तद्वति वाच्यलिङ्गः। अन्यत्र पुंसि । अश्वे सिते च यथा-क्षुण्णं खुरैश्च खरुभिः खरुधोरणीभिः । दन्ता दशनः । तत्र यथा-दन्ते मुखखुरः खरुः ॥३६७।। खुरः शफे कोलदले खुरत् छेदने । खुरति खुरः । श फे यथा-अजोनेय खुरक्षुण्णः पक्वैलाक्षेत्रसम्भवम् । कोलदलं औषधम् । गरस्तूपविषे विषे । रोगे। गिरति गरः। अ इत्यः । उपविषम् मारको द्रव्ययोगः। रोगो रोगविशेषः। त्रिष्वपि यथारक्षो यक्षोरगव्याघ्रव्यालानलगरादयः । नापकर्तुमलं तेषां यैर्धर्मः