________________
द्वितीयः काण्ड:
चाङ्गेरिकायां हिलायां मक्षिकामात्रवेश्ययोः । कुरुः स्यादोदने भूपभेदे श्रीकण्ठजाङ्गले ॥३१४।। क्रूरा नृशंसघोरोष्णकठिनाः कृच्छमहसि । कष्टे सान्तपने क्षेत्रं भरतादौ भगाङ्गयोः ॥३९५॥
,
(२२७)
यथा यथा - गोलाङ्गलविलोलपाणितुलिताः
।
।
शरणं प्रपन्ने | अल्पे क्षुद्राः क्व ते क्ष्माभृतः । नृशंसः क्रूरस्तत्र यथा - आः क्षुद्रे पति दूति राक्षसपशुम । क्षुद्रा व्याघ्रोनटीव्यङ्गाबृहतीसरघासु च । चारिकायां हिंस्रायां मक्षिकामात्रवेश्ययोः । व्याघ्रादिषु नवसु स्त्रियाम् । व्याघ्री कणकारिका तत्र यथा - क्षुद्रा मृता नागरपुष्करारव्यैः कृतः कषायः । नटी नटस्त्री तत्र यथा - शुद्राभि रुन्मुद्रितवृत्त वन्धे । व्यङ्गा अङ्गहीनास्त्री तत्र यथा - क्षुद्रापि रूपेण मदं बिभर्ति । बृहती क्षुद्रवार्त्ता की सरघा मधुमक्षिका । तत्र यथा – क्षुद्राभिरक्षुद्रतराभिराकुलं विदश्यमानेन जनेन दुद्रुवे ।। ३९३ ।। चाङ्गेरिका हिंस्रा च ओषधिभेदौ । मक्षिकामात्रं सर्वा अपि मक्षिकाः । वेश्या, शीलहोनोपलक्षणम् । तत्र यथा - धिक् ताः शुद्राः पृथुकुलगिरिग्रावदम्भोलितुल्याः । कुरु: स्यादोदने भूपभेदे श्रीकण्ठजाङ्गले । कीर्यते कुरुः । कुगृऋत उर्च (उ० ७३४) उ: । पुंसि । भूपभेदे नृपभेदे यथा - त्वयि भक्तिमता न सत्कृतः कुरुराजा गुरुरेव वेदिपः । श्रीकण्ठजाङ्गलं तीर्थविशेषस्तत्र यथा - कुरुक्षेत्रे विदुः स्थाणुं प्रभासे शशिभूषणम् । क्रूरा नृशंसघोरोष्णकठिनाः । कृन्तति क्रूरः । कृतेः क्रू कृच्छौ च ( उ० ३९५ ) इति र: । चतुर्षु अर्थेषु वाच्यलिङ्गः । नृशंसे कठिने च यथा- क्रूरस्तस्मिन्नपि न सहते सङ्गमं नौ कृतान्तः । घोरे भयङ्करे यथा - संसारकारागृह क्रूरको डनिवासिनो न सुलभा
।