________________
(२२६)
अनेकार्थसंग्रहः सटोकः
AnArrrrrrrow
-
-
-
कोरः शुके जनपदे, क्षीरं पानियदुग्धयोः ।। क्षुरो गोक्षुरके कोकिलाक्षे छेदनवस्तुनि ॥३९२।। क्षुद्रो दरिद्रे कृपणे, निकृष्टेऽल्पनृशंसयोः ।
क्षुद्रा व्याघ्रीनटीव्यङ्गाबृहतीसरघासु च ।।३९३॥ कर्मणि शिल्पिनि। करोति, क्रियते वा कारुः । कृवापाजि (उ० १) इति उण् । चतुष्वर्थेषु । कारकशिल्पिनोर्वाच्यलिङ्गः। अन्यत्र पुंसि । कारके यथा-राघवस्य ततः कार्य कारुर्वानरपुङ्गवः । विश्वकर्मशिल्पिनोर्यथा-अस्याः सुचारुमधुरेव कारुः । श्वासं वितेने मलयानिलेन । कीरः शुके जनपदे । कायति कायते वा कीरः । घसि वसि (उ० ४१९) इति किदीरः । शुके यथा-कीराधिराजविरहज्वरकातराङ्गी याता न लोचनपथं मम वल्लभा ते। जनपद: काश्मीराख्यः तत्र यथा-वीरः कीरपतिः स एष निखिलक्ष्मापालचूडामणिः। क्षीरं पानीयदुग्धयोः । घस्यते क्षीरम् । घसि वसि (उ० ४१९) इति किदीरः गमहन ४।२।४४ इति उपान्त्याकारलोपः दुग्धे पुंक्लीबः । पानीये यथा-यत्र स्रुतक्षीरतया प्रसूतः सानूनि गन्धः सुरभीकरोति । दुग्धे यथा-इक्षुक्षीरगुडादीनां माधुर्यस्यान्तरं महत् । क्षुरो गोक्षुरके कोकिलाक्षे छेदनवस्तुनि । क्षुरति क्षुरः। गोक्षुरककोकिलाक्षौ औषधभेदौ । छेदनवस्तुनि रोमादिछेदनोपकरणे यथा-एष गण: क्षुरकर्मणि शस्तः। काण्डेक्षावपि मंखः । तीक्ष्णे तूपमानाद्रूढः ॥३९२।। क्षुद्रो दरिद्रे कृपणे निकृष्टेऽल्पनृशंसयोः । क्षुणत्ति क्षुद्यते वा क्षुद्रः । ऋज्यजि (उ० ३८८) इति कित् रः । पञ्चस्वर्थेषु वाच्य लिङ्गः । दरिद्रे कृपणे च यथा-क्षुद्रो नैव ददाति किञ्चिदुचितं दद्यादथ स्वल्पकम् । निकृष्टे यथा-शुद्रेऽपि नूनं