________________
द्वितीयः काण्ड:
(२२५)
कारा बन्धनशालायां, बन्धे दूत्यां प्रसेवके ।। स्याद्धेमकारिकायां च क्षारः काचे रसे गुडे ॥३९०॥ भस्मनि धर्तलवणे, कारिः शिल्पी क्रियाऽपि ज ।। कारुस्तु कारके शिल्पे, विश्वकर्मणि शिल्पिनि ॥३९१॥
पिङ्गे स्यात् । कत् कुत्सितं द्रवति कद्रुः। हरि पति (उ० ७४५) इति डद्रुः । कनकपिङ्गे गुणमात्रे पुंसि। तद्वति वाच्यलिङ्गः। तत्र यथा-उपद्रुतः कद्रुभिरेष वानरैः । कद्रूस्तु नागमातरि । वाह्वन्तकद्रुकमण्डलोर्नाम्नि । २।४।७४। इति ऊञ यथा-मातः कद्रु यदि प्रसौति भवतीभूयः सुतानीदृशान् । कारो बलौ वधे यत्ने हिमाद्रौ निश्चये यतौ ।। कर एव कारः। क्रियते वा। बलिनुपग्राह्यस्तत्र यथा-चिरात्कारं वारांनिधिरपि गृहीतस्तव भटः ।।३८९।। कारा बन्धनशालायां बन्धे दूत्यां प्रसेवके । स्याद्धेमकारिकायां च । क्रियतेऽस्यां कारा। भिदादित्वादडि साधुः। बन्धनशालायां यथा-नराः संसारकारायाम् । बन्धे यथा-कारागृहे निर्जितवासवेन लङ्केश्वरेणोषितमाप्रसादात् । दूत्यां यथा-वराकाराकारा किमिह कुरुते प्रेम्णि गलिंते । प्रसेवको वस्त्रादिमयं भाजनम् । तत्र यथा-सारं कारासु निक्षिप । हेमकारिका ओर्षाधः। क्षारः काचे रसे गुडे ॥ भस्मनि धूर्तलवणे । क्षरति क्षारः ज्वलादित्वाद् णः । पञ्चस्वर्थेषु । धूतलवणम्-लवणभेदः। काचे भस्मनि च यथा-सत्यं क्षारमणिः क्षारस्तस्य चिन्तामणेः पुरः। शेषेषु यथा-कः क्षते क्षारनिक्षेपं विदधाति विचक्षणः । ।।३९०।। कारिः शिल्पी क्रियापि च । करोति करणं वा कारिः। कृशकुटि (उ० ६१९) इति णिदिः । शिल्पिनि वाच्यलिङ्गः क्रियायां स्त्रीलिङ्गः । कारुस्तु कारके शिल्पे विश्व