________________
द्वितीयः काण्ड:
(२१९)
सायः शरेऽपराहणे च, स्थेयोऽक्षकपुरोधसोः । सेव्य मुशीरे सेवाहे, सैन्यं सैनिकसेनयोः ॥३७८॥ सौभ्यः सोमात्मजेऽनुग्ने मनोज्ञे सोमदैवते । सौम्याः पुनर्मूगशिरः, शिरःस्थाः पञ्चतारकाः ।।३७९।।
स्थाच्छामा (उ० ३५७) इति यः। अपराहणे क्लीबे इति लिङ्गविदः। शरे यथा-स तस्य काये प्रजिघाय सायम् । अपराहणे यथा-सायमण्डनसमुत्सुकाङ्गनो दूत्यकर्मसु रतः सखीजनः । स्थेयोऽक्षदृक्पुरोधसोः । तिष्ठन्त्यस्मिन्निति स्थेयः । बाहुलकादधिकरणेऽपि यः । अक्षं व्यवहारं पश्यत्यक्षदृक् । न्यायदर्शकः । पुरोधाः पुरोहितः । द्वयोर्यथा-स्थेयो विधेयेषु सदा प्रमाणम् । सेव्यमुशोरे सेवाहे । सेव्यते सेव्यम् । उशीरं वीरणीमूलम् । सेवाहे वाच्यलिङ्गः। तत्र यथा-सेव्या नितम्बाः किमु भूधराणामुत स्मरस्मे रविलासिनीनाम् । सैन्यं सैनिकसेनयोः । सेनां समवैति सैन्यम् । सेनाया वा । ६ । ४। ४८ । इति ण्यः। सेनैव वा सैन्यम् । भेषजादित्वाद् घ्यण् । सैनिके वाच्यलिङ्गः। तत्र यथा-सैन्याः श्रियामनुपभोगनिरर्थकत्वमिथ्याप्रवादममृ सृजन व (घ)ननिम्नगानाम् । सेनायां यथा- गोप्तारं सुरसैन्यानां यं पुरस्कृत्य गोत्रभित् । सौम्यः सोमात्मजेऽनुग्रे मनोज्ञे सोमदैवते । सोमो देवताऽस्य सौम्यः । कसोमाट्टयण् । ६।२ । १०७ । अनुग्रमनोज्ञयोस्तूपचारात् सोम एव वा सौम्यः । सोमात्मजे पुंसि । शेषेषु वाच्यलिङ्गः। सोमात्मजे यथा-शौरेः सौम्यसितावरी। अनुग्रमनोज्ञयोर्यथा - कश्चित् सौम्याध्यवसितमिदं बन्धुकृत्यं त्वया मे । सोमदेवते यथा-निर्वपेत हविः सौम्यम् । सौम्याः पुनर्मूगशिरः शिरःस्था: पञ्चतारकाः। पञ्चतारकाः