________________
द्वितीयः काण्ड:
(२१७)
Duram
सह्यमारोग्ये सोढव्ये, सह्योऽद्रौ सव्यं दक्षिणे । वामे च प्रतिकूले च, सत्यं तु शपथे कृते ॥३७५॥
इति क्यप् । द्वयोर्यथा-रसेन शय्यां स्वयमभ्युपागता। कथा जनस्याभिनवा वधूरिव । शून्यं बिन्दौ च निर्जने । शुनि हितं शून्यम् । शुनो वश्वोदूत् । ७।१।३३। इति यः बिन्दौं यथा - शून्यहृते वा शून्ये किं भवति फलं पृथक् कथय । निर्जने वाच्यलिङ्गः। तत्र यया-शून्यं वासगृहं विलोक्य शयनादुत्थाय किञ्चिच्छनैः । शून्या तु नलिका । नलिका वंशादिमयो । शौर्यं चारभट्यां बलेऽपि च । शूरस्य भावः शौर्यम् । चारभटो भयहेतावपि निर्भयमनस्कता। तत्र यथा-त्यागः सत्यं च शौर्यं च त्रय एते महागुणाः । बलं भुजादिगतं स्थाम। तत्र यथा-शौर्येण धुर्या हि वहन्ति भारम् ॥३७४॥ सह्यमारोग्ये सोढव्ये। सह्यते सह्यम् । शकि तकि ५। १ । २९ । इति यः सोढव्ये वाच्यलिङ्गः। आरोग्ये यथा-सह्येन सह्यते भोज्यम् । सह्योऽद्रो । सोढव्येऽद्रौ च यथा-असह्य विक्रमः सह्यं दूरमुक्तमुदन्वता। सव्यं तु दक्षिणे । वामे च प्रतिकूले च । सुवति सव्यम् । स्थाच्छामा (उ० ३५७) इति यः । वाच्यलिङ्गः। दक्षिणे यथा-वामो बाहुर्मुडान्याः करकलितरणकङ्कणालीकरालो यस्मिन् सव्यश्च शम्भोर्भुजगवलयवान् सह्यमाकर्षणं तत् । वामे यथा-सव्यालम्बनमेतदत्र। भवतो निःस्नेहमुञ्चाम्यहम् । प्रतिकूले यथा-सव्ये दैवे दिव्यमेतन्न भव्यम् । सत्यं तु शपथे कृते । तथ्ये तद्वति । सत्सु साधु सत्यम् । अस्तीति वा । शिक्यास्था (उ० ३६४) इति साधुः तद्वति वाच्यलिङ्गः। शपथे यथा