________________
(२१६)
अनेकार्थसंग्रहः सटोकः
वेश्या तु पण्ययोषायां, शल्यः स्यान्मदनद्रुमे । नृपभेदे श्वाविधि च सोम्नि शस्त्रशलाकयोः ॥३७३।। शय्या तल्पे शब्दगुम्फे, शून्य बिन्दौ च निर्जने । शून्या तु नलिका शौर्य चारभटयां बलेऽपि च ॥३७४॥
यथा-शम्भोर्वीर्यमिवानल: । शक्ती बले स्त्रीक्लीबः। तत्र यथानमोऽस्त्ववीर्य वीर्याय तस्मै कुसुमधन्वनि। वीक्ष्य तु द्रष्टव्ये विस्मयेऽपि च । वीक्ष्यते वीक्ष्यम् । द्रष्टव्ये वाच्यलिङ्गः । द्वयोर्य था-वीक्ष्य निरीक्ष्य वामाक्षी । वीक्ष्यस्तु लासके वाहे । लासको नर्तकः । वाहोऽश्वः। वीक्ष्यो वलक्षद्युतिः । वेश्य तु गणिकागृहे । वेशो वेश्यावाटः तत्र भवं वेश्यम् । दिगादित्वाद् यः । वेश्ये विशन्ति नावश्य वश्य येषां मनः सदा ॥३७२।। वेश्या तु पण्ययौषायाम् । वेशेन शोभते वेश्या । कर्मवेशाद् यः ६ । ४ । १०३ । इति मतान्तरेण यः। यथा-वेश्यास्त्वत्तो नरपदसुखान् पाप्य वर्षाग्रबिन्दुन् । शल्यः स्यान्मदनद्रुमे । नृपभेदे श्वाविधि च सीम्नि शस्त्रशलाकयोः । शलति शल्यम् । स्थाच्छामा (उ० ३५७) इति यः षट्स्वर्थेषु सीम्नि शस्त्रे शलाकायां च पुंक्लीबः । अन्यत्र पुंसि । नृपभेदे यथा-शल्यो जेष्यति पाण्डवान् । श्वावित् मृगभेदः । तत्र यथा-सीमन्तोन्नयनं कार्य शल्यपत्रेण. धीमता । सीम्नि यथा-शैलोपशल्यनिपतद्रथनेमिधारानिष्पिष्टनिष्ठुरशिलातलचूर्णगर्भाः। शस्त्रे वथा-शल्यप्रोतं वीक्ष्य सकुम्भं(म्भ) मुनिपुत्रम् । शलाकायां यथा-शल्यमपि स्खलदन्तः (प्र० सबलदन्तः) सोढुं शक्यते हलाहलदिग्धम् । अन्तर्वणेऽपि मंखः । भवति हृदयदाही शल्यतुल्यो विपाक: ।।३७३।। शय्या तल्पे शब्दगुम्फे। शेरतेऽस्यामिति शय्या । समज । ५। ३ । ९९