________________
द्वितीयः काण्ड:
(२१५)
लभ्यं लब्धव्ये युक्ते च विन्ध्यो व्याधाद्रिभेदयोः । विन्ध्या त्रुटौ लवल्यां च वीर्यं तेजःप्रभावयोः || ३७१ || शुक्रे शक्तौ च वीक्ष्यं तु द्रष्टव्ये विस्मयेऽपि च । वीक्ष्यस्तु लासके वाहे वेश्यं तु गणिकागृहे || ३७२।।
निघातिकाताडनेन यद् हेमादिः आहन्यते तदाहतम् । आदिशब्दाद्रजतपरिग्रहः । तत्र यथा - मणिरूप्यादिविज्ञानं तद्विदां नानुमानिकम् । रजते रजतमात्रे रूपवति यथा - रूप्यभित्तिषु संक्रान्तप्रतिबिम्बाः सुरस्त्रियः । लयस्तूर्यत्रयीसाम्ये संश्लेषणविलासयोः । लीयतेऽनेन लयनं वा लयः | लातेर्वा । लादिभ्यः कितु ( उ० ३६७ ) इति अय: । तूर्यत्रयीसाम्ये यथा - स्मरसि लयविचित्रं वत्रवाद्यं विधाय । संश्लेषणे यथा - रसकलामलपलवलीलया । विलासे यथा - किसलयैः सलयैरिव पाणिभिः लभ्यते लभ्यम् ।
शकि
।। ३७० ।। लभ्यं लब्धव्ये युक्ते च । तकि ५ । १ । २९ । इति यः । वाच्यलिङ्गः । वाच्यलिङ्गः । द्वयोर्यथास्थापितो दशमो मूर्द्धा लभ्यांश इव रक्षसा । विन्ध्यो व्याधाद्रिभेदयोः । विधति विध्यति वा विन्ध्यः । शिक्या सा ( उ० ३६४) इति साधुः । व्याधे यथा- विव्याध श्वाविधं विन्ध्यः । अद्रिभेदे यथा - रेवां द्रक्ष्यस्युपलविषमे विन्ध्यपादे विशीर्णाम् । विन्ध्या तुटौ लवल्यां च । त्रुटि: क्षणद्वयम् । लवली वृक्षः । वीर्यं तेजःप्रभावयोः । शुक्रे शक्तौ च । वीरे साधु वीर्यम् । वीर्यत इति वा । तेज उत्कटत्वम् । यदुरतः । अधिक्षेपोऽवमानादेः प्रयुक्तम्य परेण यत् । प्राणात्ययेऽप्यसहनं तत्तेजः समुदाहृतम् । तत्र यथा-वीर्यं च विद्वत्सु सुते मघोनः । प्रभावः द्रव्यमाहात्म्यम् । तत्र यथा - रसयीय विपाकतः || ३७१ || शुक्रं प्रधानधातुः । तत्र
-