________________
द्वितीयः काण्डः
(२१३)
ANANANANANAAAAAAAA.
मूल्यं वस्ने वेतने च ययुर्यज्ञहये हये । याम्याऽपाच्यां भरण्यां च, योग्यो योगार्हशक्तयोः ॥३६७॥ उपायिनि प्रवीणे च, योग्यमृद्धयाह्वयौषधे । योग्यायोषित्यभ्यासे, रम्यश्च म्पकहृद्ययोः ॥३६८॥
वस्ने वेतने च । मूलेन आनाम्यं मूल्यम् । हृद्यं पद्य ७।१।११ । इति साधुः। वस्नोऽवक्रयः । वेतनं भृतिः। वस्ने यथा-मूल्यादौषधवत् काम: प्रभुत्वात् केवलः श्रमः । वेतने यथा-क्रुद्ध च तस्मै सा मूल्यमत्यल्पमुपकल्पयेत् । विनिमयधनयोरपि । विनिमयो यद् द्रव्यान्तराद् द्रव्यं प्राप्यते । तत्र यथा-येन पाषाणखण्डस्य मूल्यमरूपं वसुन्धरा । धने यथा-पश्चात् प्रयाति न हि कस्यचिदेव मूल्यम् । ययुर्यज्ञहये हये। याति ययुः । हनि या (उ०७३३) इति किद्वित्वं च। पुंसि । यज्ञहये अश्वमेघाश्वे यथा-राजन्यास्ते ययुमनुययुर्यायजूकेन मुक्तम् । हये अश्वमात्रे यथा-राजानो ययुभिर्ययुः । याम्याऽपाच्यां च । यमेादेवताऽस्या याम्या । अनिदमि ६।१।१५ इति ज्यः । अपाच्या दक्षिणस्यां दिशि यथा- यान्तु याम्यां दिशं प्रोष्ठपदासु तव शत्रवः। भरण्यां यथा-सूर्येण युक्ता न शुभाय याम्या । योग्यो योगार्हशक्तयोः । उपायिनि प्रवीणे च । योक्तुमर्हः शक्तो वा योग्यः। शक्तार्हे कृत्याश्च ५। ४ । ३५ । इति घ्यण् । योगमर्हति वा । दन्डादित्वाद् यः । योगाय शक्तो वा। योगकर्मभ्यां यो कञ्पाविति यः। चतुर्वपि वाच्यलिङ्गः। योगार्हे उचिते यथा-कान्त्या गिरा सूनृतया च योग्या त्वमेव कल्याणि तयो. स्तृतीया । शक्ते यथा-योग्यः स योगी विषयान् विजेतुम् ॥३६७॥ उपायिनि यथा-नगेऽपि योग्यो न कदापि योगी