________________
द्वितोयः काण्ड:
(२०१)
Awaavan
wwwwwwwwwwwwwwwwwww
गुह्यमुपस्थे रहस्ये, गृह्य तु मलवम॑नि । गृह्योऽस्वैरिणि पक्ष्ये च, गृहासक्तमृगाण्डजे ॥३४७॥ गृह्या तु शाखानगरे, गेयौ गातव्यगायनौ ।
गोप्यौ दासेरगोप्तव्यौ, चयः प्राकारपीठभूः ॥३४८।। ज्यायां रागवस्तुनि च क्लीबे। ज्यायां स्त्रियामिति मंखः । क्षीरादिके यथा – गव्यकर्पूरकुङ्कमैः । ज्यायां मौ| यथादुष्करा धनुषा व्याधैमृगव्या गव्यया विना। रागवस्तुनि गोरोचनादौ यथा-गव्येन नव्यं तिलकं चकार। गोहिते यथागव्यनाव्यजला नदी। गव्या गोवृन्दगव्यूत्योः । गवां समूहोगव्या । पाशादेश्च ल्यः । ६-२-२५ । इति ल्यः । गोभ्यो हितो वा । गोविन्दे यथा-गव्योपसेव्यानि वनानि पश्यन् । गव्यूतिः क्रोशद्वयम् । गुह्यः कमठदम्भयोः। गुह्यते गुह्यः। कृ वृ षि । ५-१-४२ । इति क्यप् । द्वयोर्यथा-गृहे गुह्य इवाङ्गानि न गुह्येन तु योगवित् । गुह्यमुपस्थे रहस्ये । उपस्थो योन्यादिः । तत्र यथा - येषां गुणमयं जन्म परेषां गुह्यगुप्तये । रहस्य गोप्यम् । तत्र यथा-स्त्रीषु गुह्यं न वक्तव्यं प्राणैः कण्ठगतैरपि । गृह्यन्तु मलवमनि । गृह्यते गृह्यम् । ऋषिजनि (उ० ३६१) इति बहुवचनात् कित् यः। मलवम बस्तिः । गृह्योऽस्वैरिणि पक्ष्ये च गृहासक्तमृगाण्डजे । गृह्यते गृह्यः । पदास्वरि वाह्या ५-१-४४ । इति क्यप् । अस्वैरिपक्ष्ययोवाच्यलिङ्गः । अस्वैरिणि यथा-स्वातन्त्र्यं त्वयि यन्त्रितं च करणग्रामैकगृह्या वयम्। पक्ष्यो वर्ग्यः । तत्र यथा-गुणगृह्या वचने विपश्चितः । गृहासक्तौ मृगान्डजश्चेति द्वावों । तयोर्यथा - गृह्यकेलिकलनाकुतूहलात् ॥३४७।। गृह्या तु शाखानगरे स्त्रियां । मंखस्तु शाखापुरे न ना।